Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 1

(२)हरिवंशश्रवणस्य विधिः फलं च वैशम्पायन उवाच ।

जपाद्धि श्रवणं प्रोक्तं हरिवंशस्य सूरिभिः ।

पितॄन् सन्तर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 2

सुमण्डपं च कर्तव्यं तत्र स्थाप्यो हरिस्तथा ।

कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधिं क्रमात् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 3

प्रदक्षिणानमस्कारान् पूजान्ते स्तुतिमाचरेत् ।

संसारसागरे मग्नं दीनं मां करुणानिधे ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 3

इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम तृतीयोऽध्यायः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 4

कर्मग्राहगृहीतोऽहं मामुद्धर भवार्णवात् ।

ततः श्रीहरिवंशस्य पूजा कार्या प्रयत्नतः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 5

विधिना षोडशेनैव धूपदीपसमन्विता ।

ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 6

स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ।

स्वीकृतोऽसि मया नाथ पुत्रार्थं भवसागरे ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 7

मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 8

एवं दीनवचः प्रोक्त्वा वक्तारं चाथ पूजयेत् ।

सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 9

व्यासरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।

एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 10

तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।

नवरात्रं यथाशक्त्या धारणीयः स एव हि ॥ ३.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 11

वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये ।

कर्तव्यं तैर्हरेर्जाप्यं द्वादशाक्षरविद्यया ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 12

सन्तानगोपालमन्त्रो महारुद्रजपस्तथा ।

पूजनं पार्थिवस्यैव गणनाथमनोर्जपः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 13

ब्राह्मणान् वैष्णवांश्चान्यांस्तथा कीर्तनकारिणः ।

नत्वा सम्पूज्य दत्ताज्ञः स्वयमासनमाविशेत् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 14

लोकवित्तधनागारसर्वचिन्ता व्युदस्य च ।

कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 15

दम्पती शुद्धमनसौ श्रद्धाभक्तिसमन्वितौ ।

श्रद्धैव सर्वधर्माणां मातेव हितकारिणी ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 16

श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ।

श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 17

मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति ज्ञानदः ।

श्रद्धया भजतो मन्त्रस्त्वसद् योऽपि फलप्रदः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 18

श्रद्धया पूजितो देवो नीचस्यापि वरप्रदः ।

अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 19

सर्वं निष्फलतां याति पुष्पं बन्धुतरोरिव ।

सर्वत्र संशयाविष्टः भद्धाहीनोऽतिचञ्चलः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 20

परमार्थात् परिभ्रष्टः संसृतेर्न हि मुच्यते ।

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥ ३.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 21

यादशी भावना यस्य सिद्धिर्भवति तादृशी ।

अतो भावमयं विश्वं पुण्यपापं च भावतः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 22

ते उभे भावहीनस्य न भवेतां कदाचन ।

तस्मात्सर्वात्मना राजञ्छ्रद्धाभक्ती समाश्रयेत् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 23

आ सूर्योदयमारभ्य सार्धं त्रिप्रहरार्धकम् ।

वाचनीया कथा सम्यग् धीरकण्ठं सुधीमता ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 24

कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयम् ।

तत् कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 3: तृतीयोऽध्यायः, Verse 25

एवं श्रुत्वा विधानेन सर्वान्कामानवाप्नुयात् ॥ २५॥