Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 1

(१)हरिवंशश्रवणस्य विधिः फलं च वैशम्पायन उवाच ।

अथ ते सम्प्रवक्ष्यामि नवाहश्रवणे विधिम् ।

सहायैर्बहुभिश्चैव प्रायः साध्यो विधिस्त्वयम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 2

दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।

विवाहे यादृशं वित्तं तादृशं परिकल्प्य च ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 2

इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम द्वितीयोऽध्यायः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 3

नभस्यश्चाश्विनोर्जौ च मार्गशीर्षः शुचिर्नभः ।

एते मासाः कथारम्भे श्रोतॄणां कामसूचकाः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 4

सहायाश्च त एवात्र कर्तव्याः सोद्यमाश्च ये ।

देशे देशे तथा सेयं वार्ता प्रोच्या प्रयत्नतः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 5

भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ।

देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 6

तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् ।

सतां समाजो भविता नवरात्रं सुदुर्लभः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 7

आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ।

तीर्थे वापि वने वापि गृहे वा श्रवणं स्मृतम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 8

विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ।

शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 9

गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ।

कर्तव्यो मण्डपः प्रोच्चैः कदलीस्तम्भमण्डितः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 10

फलपुष्पदलैर्विष्वग्वितानेन विराजितः ।

चतुर्दिक्षु ध्वजारोपस्तोरणेन विराजितः ॥ २.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 11

ऊर्ध्वं सप्तैव लोकाश्च सप्ताधः परिकल्पयेत् ।

तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य वै ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 12

पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् ।

वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 13

उदङ्मुखो भवेद् वक्ता श्रोता वै प्राङ्मुखस्तथा ।

प्राङ्मुखोऽथ भवेद् वक्ता श्रोता चोदङमुखस्तथा ॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 14

विरक्तो वैष्णवो विप्रो वेदशास्त्रविशारदः ।

दृष्टान्तकुशलो धीरो वक्ता कार्यो दयान्वितः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 15

वेदवेदान्ततत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ।

नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 16

अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः ।

नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 17

अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।

धर्मशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 18

वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।

पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 19

वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग् व्रताप्तये ।

वक्तुः श्रोतुश्चन्द्रशुद्धौ दम्पत्योः शुभतारके ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 20

अरुणोदये विनिर्वर्त्य शौचं स्नानं समाचरेत् ।

नित्यं सङ्क्षेपतः कृत्वा सन्ध्याद्यं प्रयतस्ततः ॥ २.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 21

सुक्षालितपाणिपादः स्वस्तिवाचनपूर्वकम् ।

गोमयोपलिप्तदेशे सर्वतोभद्रकल्पनम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 22

स्वीयशक्त्यनुसारेण पूजनं सर्वमाचरेत् ।

कथाविघ्नविनाशाय गणनाथं प्रपूजयेत् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 23

सलक्ष्मीपुत्रसहितं गोपालं स्थापयेत् ततः ।

निर्विघ्नेनैव सिद्ध्यर्थं देवपूजनपूर्वकम् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 24

सङ्कल्पं कुर्यात्- अद्येहेत्यादिदेशकालौ स्मृत्वा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः सपत्नीकस्य मम जन्मनि जन्मनि सञ्चितमहापातकपटलनाशपूर्वकं तेन पापसञ्चयेन कृतसन्तानबाधकताविनाशपूर्वकमिह जन्मनि सन्तानोत्पत्तिहेतवे तस्य सन्तानस्य शरदां शतमायुषो वृद्ध्यर्थमात्मनश्च सकलसुखाप्तिहेतवे इह शरीरशुद्धयर्थं परत्र चेन्द्रादिलोकातिक्रमणपूर्वकश्रीमद्विष्णुभक्त्युद्रेकजनितकल्पावधितल्लोकगमन तत्र वासपूर्वक तत्स्वरूपावाप्तिहेतवे आवां दम्पती श्रीमद्धरिवंशपुराणश्रवणं कर्तृकतया करिष्यावहे ।

अन्यतरकर्तृत्वे करिष्ये इत्येव सङ्कल्पः ।

इति कृत्वा तु सङ्कल्पं वक्तारं वृणुयात्ततः ।

श्रुताध्ययनसम्पन्नं पूजयित्वा यथाविधि ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 25

सुवर्णमुद्रिकां गृह्य कुण्डले च विशेषतः ।

धौतवस्त्रं सोत्तरीयं चोष्णीषेण समन्वितम् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 26

सुवर्णषोडशपलं पुष्पताम्बूलसंयुतम् ।

पूगीफलं चाक्षतान् वै गृहीत्वा शुद्धमानसः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 27

सङ्कल्पः - अद्येहेत्यादि अमुकगोत्रममुकशर्माणं ब्राह्मणमेभिश्चन्दनताम्बूलसुवर्णवस्त्रादिभिर्हरिवंशश्रवणे वाचकत्वेनावां दम्पती त्वां वृणीवहे ।

वृतोऽस्मीति तेनोक्ते- व्रतेन दीक्षामाप्नोति इति मन्त्रेण वक्तुर्दक्षिणकरमूले रक्षाबन्धनं कार्यं ।

ब्राह्मणेन श्रोतॄणां रक्षाबन्धनं कार्यम् ।

(३)यजमानः व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।

दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 27

चन्दनाद्युपचारैस्तु वस्त्रपुष्पाक्षतैस्तथा ।

हेमालङ्करणैः पूगैः फलैरृतुसमुद्भवैः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: द्वितीयोऽध्यायः, Verse 28

पुराणपूजनं प्रोक्तं विधिना षोडशेन तु ।

पूजयित्वा द्विजश्रेष्ठाञ्श्रवणं फलदं स्मृतं २८ ॥