Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 1

पुरुवंशानुकीर्तनम् Dynasty of puru पूरोः वंशान्तर्गतं ऋचेयोः वंशपरम्परा - अजमीढवंशः, पाञ्चाल सोमकवंशं च, कौरववंशः, तुर्वसोः, द्रुह्योः एवं अनोः सन्ततिवर्णनं वैशम्पायन उवाच ।

अनाधृष्यस्तु राजर्षिरृचेयुश्चैकराट् स्मृतः ।

ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 2

तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः ।

मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 3

तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः ।

गौरी कन्या च विख्याता मान्धातृजननी शुभा ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 4

सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः ।

सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 5

पुत्रः प्रतिरथस्यासीत् कण्वः समभवन्नृपः ।

मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 6

ईलिनी भूप यस्यासीत् कन्या वै जनमेजय ।

ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 7

तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः ।

ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 8

उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् ।

दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 9

दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।

स सर्वदमनो नाम नागायुतबलो महान् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 10

चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।

शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ॥ १.३२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 11

दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 12

भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 13

त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।

भरतस्य विनष्टेषु तनयेषु महीपतेः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 14

मातॄणां तात कोपेन मया ते कथितं पुरा ।

बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः ।

सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 15

अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।

धर्मसङ्क्रमणं चापि मरुद्भिर्भरताय वै ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 16

अयाजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् ।

पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 17

ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।

ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 18

वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।

स राजा वितथः पुत्राञ्जनयामास पञ्च वै ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 19

सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।

कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 20

काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।

तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ॥ १.३२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 21

काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ।

आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 22

सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ।

अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 23

अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ।

नीलिनी केशिनी चैव धूमिनी च वराङ्गना ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 24

अजमीढस्य नीलिन्यां सुशान्तिरुदपद्यत ।

पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 25

वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 26

मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः ।

यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 27

पञ्चैते रक्षणायालं देशानामिति विश्रुताः ।

पञ्चानां विद्धि पञ्चालान्स्फीतैर्जनपदैर्वृतान् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 28

अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ।

मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 29

सर्व एते महात्मानः क्षत्रोपेता द्विजातयः ।

एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: पूरुवंशानुकीर्तने, Verse 30

मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः ।

इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ॥ १.३२.३०॥