Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 1

९९९ श्रीहरिवंशमाहात्म्यं श्रीपरमात्मने नमः ।

हरिवंशश्रवणस्य माहात्म्यं, नार्याः पञ्च दोषाणि, हरिवंशश्रवणेन तेषां निवृत्तिः, पाठस्य उत्तम, मध्यमादि भेदाः, गोव्रतस्य विधिः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 1

इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम प्रथमोऽध्यायः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 2

जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।

यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 3

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 4

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।

तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 5

जनमेजय उवाच ।

त्वया मे भगवन् प्रोक्तो भारतश्रवणे विधिः ।

श्रवणे हरिवंशस्य विशेषाद् वद मे विधिम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 6

वैशम्पायन उवाच ।

ब्रह्मविष्णुमहेशानां हरिवंशं जगुर्वपुः ।

शब्दब्रह्ममयं विद्धि हरिवंशं सनातनम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 7

शाब्दे ब्रह्मणि निष्णातः परब्रह्माधिगच्छति ।

हरिवंशपुराणे तु श्रुते वै राजसत्तम ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 8

कायिकं वाचिकं पापं मनसा समुपार्जितम् ।

तत् सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 9

अष्टादशपुराणानां श्रवणाद् यत् फलं लभेत् ।

तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 10

स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः ।

जम्बूद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥ १.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 11

भविष्यन्ति नरा राजन् सत्यंसत्यं वदाम्यहम् ।

स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 12

बालघाती च पुरुषो मृतवत्सः प्रजायते ।

श्रवणं हरिवंशस्य कर्तव्यं च यथाविधि ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 13

गुरुचन्द्राग्निसूर्याणां सम्मुखे मेहते च यः ।

बीजमुसृज्यते तेन त्यक्तरेता नरो भवेत् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 14

योषित्पुष्पफलानां च बालानां घातिनी तथा ।

फलानां कर्तनकरी मातापितृवियोगिनी ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 15

स्राविणी परगर्भाणां तत् तत् प्रायोपजोषिणी ।

ईदृग्विधा भविष्यन्ति पञ्चदोषयुताः स्त्रियः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 16

अपुष्पा मृतवत्साश्च काकवन्ध्यास्तथैव च ।

कन्याप्रजात्वं च तथा स्रावयुक्ताः स्वपातकैः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 17

तासां दोषापहारार्थं हरिवंशोऽभिगर्जति ।

मदीयश्रवणात्सद्यो दोषा नश्यन्ति सत्वरम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 18

नरः सुवर्णं सर्पिश्च पददानैः समन्वितम् ।

दशावृत्तीः श‍ृणोत्येवं बीजसाफल्यमाप्नुयात् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 19

दशावृत्तीरपुष्पार्थं मृतवत्सा तु सप्त वै ।

पञ्चावृत्तीः स्रवद्गर्भा काकवन्ध्या त्रयं तथा ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 20

कन्याप्रसूश्चैकावृत्तिं श्रुत्वा पुत्रमवाप्नुयात् ।

जीवितावधिकं श्राव्यं सर्वदोषोपशान्तये ॥ १.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 21

भविष्यं जन्मसम्प्राप्य न भवेत् तादृशी पुनः ।

उत्तमं सार्थपाठं च मध्यमं च निरर्थकम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 22

विनार्थं शुद्धपाठश्चेदुत्तमेन समो भवेत् ।

नवाहमुत्तमं प्रोक्तमेकविंशाह मध्यमम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 23

निकृष्टमेकत्रिंशाहं सुखसाध्यं समाचरेत् ।

बहुभिर्दिवसै राजन् साध्यानां साधनं कलौ ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 24

तेन पारायणं साध्यं प्रोक्तं नारायणात्मना ।

नवाहो गर्जति कलौ चैकविंशाहिकस्तथा ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 25

एकत्रिंशाहिको यज्ञो वन्ध्यादोषविनाशकः ।

गोव्रतं तु स्त्रिया कार्यं पारणं पुरुषेण च ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 26

श्रवणारम्भणे राजन् यथावत् कथयामि ते ।

अवसायान्तपर्यन्तं कार्यं मासव्रतं शुभम् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 27

चतुर्थ्यां प्रातरुत्थाय स्त्रिया हृष्टेन चेतसा ।

गोव्रतं नियतं कार्यं निराहारं निरूदकम् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 28

सृर्यास्तकालपर्यन्तं यावद्ग्रामागमो भवेत् ।

आगतां च सवत्सां हि पूजयित्वा यथाविधि ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 1: प्रथमोऽध्यायः, Verse 29

यवसं पुष्कलं दत्त्वा यवान्नं कुरुते स्वयम् ।

एवं मासे चतुर्थ्यां सा शुक्लायां व्रतमाचरेत् ॥ २९॥