Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 1

हरिवंशवृत्तान्तसंग्रहः A precise of harivamsha हरिवंशे वर्णितानां वृत्तान्तानां सङ्ग्रहः वैशम्पायन उवाच ।

हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।

तत्रादावादिसर्गस्तु भूतसर्गस्ततः परः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 2

पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।

वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 3

गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् ।

पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 4

अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।

च्युतिम्प्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 5

दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।

ययातिचरितं चैव पूरुवंशस्य कीर्तनम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 5

फिर दिवोदासकी प्रतिष्ठा, राजा त्रिशङ्कुकी कथा, ययातिका चरित्र और पूरुवशका वर्णन ह ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 6

कीर्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा ।

सङ्क्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 7

तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।

योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 8

पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।

ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 9

आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।

गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 10

पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।

वृकसन्दर्शानं चैव बृन्दावननिवेशनम् ॥ ३.१३४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 11

प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।

कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 12

प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।

गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 13

गोविन्दस्याभिषेकं च गोपीसङ्क्रीडनं तथा ।

रिष्टासुरस्य निधनमकूरप्रेषणं तथा ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 14

अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।

अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 15

धनुर्भङ्गस्य कथनं कंसवाक्यमतः परम् ।

कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 16

कंसस्य निधनं चापि विलापः कंसयोषिताम् ।

उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 17

प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।

मथुरायाश्चोपरोधो जरासन्धनिवर्तनम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 18

विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।

गोमन्तारोहणं चापि जरासन्धगतिस्तथा ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 19

गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।

श‍ृगालस्य वधस्तत्र मथुरागमनं ततः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 20

यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।

उपायेन वधः कालयवनस्य प्रकीर्तितः ॥ ३.१३४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 21

निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।

विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 22

बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।

नरकस्य वधः पारिजातस्य हरणं तथा ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 23

द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।

द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 24

नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।

षट्पुरस्य वधाख्यानमन्धकस्य निबर्हणम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 25

समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।

तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 26

ततश्छालिक्यगान्धर्वसमुदाहरणं हरेः ।

भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 27

शम्बरस्य वथश्चैव धन्योपाख्यानमेव च ।

वासुदेवस्य माहात्म्यं बाणयुद्धं प्रपञ्चितम् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 28

भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।

वाराहं नारसिंहं च वामनं बहुविस्तरम् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 134: वृत्तान्तसङ्ग्रहे, Verse 29

कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस्ततः ।

हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ॥ २९॥