Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने

Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 1

पारायणपर्वक्रमेण महाभारतश्रवणफलम् Procedures for reciting Mahabharata and benefits thereof महाभारतहरिवंशयोः श्रवणविधिः फलं च, वाचकस्य गुणाः, प्रतिपर्वणि दानार्हं द्रव्यं, एकतः दशसङ्ख्याकानां पारणानां महत्त्वं, महाभारतहरिवंशयोः माहात्म्यं जनमेजय उवाच ।

भगवन् केन विधिना श्रोतव्यं भारतं बुधैः ।

फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 2

देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।

वाचकः कीदृशश्चात्र यष्टव्यस्तद् ब्रवीहि मे ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 3

वैशम्पायन उवाच ।

श‍ृणु राजन् विधिमिमं फलं यच्चापि भारतात् ।

श्रुताद् भवति राजेन्द्र यत् त्वं मामनुपृच्छसि ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 4

दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।

कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 5

हन्त यत् ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।

ऋषीणां देवतानां च सम्भवं वसुधातले ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 6

अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।

आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 7

गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।

सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 8

गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।

ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 9

स्थावरं जङ्गमं चैव जगत् सर्वं सुरासुरम् ।

भारते भरतश्रेष्ठ एकस्थमिह दृश्यते ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 10

तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् ।

कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥ ३.१३२.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 11

इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।

संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 12

तेषां श‍ृणु त्वं श्राद्धानि श्रुत्वा भारत भारतम् ।

ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 13

महादानानि देयानि रत्नानि विविधानि च ।

गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 14

सर्वकामगुणोपेता यानानि विविधानि च ।

भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 15

वाहनानि च देयानि हया मत्ताश्च वारणाः ।

शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 16

यद् यद् गृहे वरं किञ्चिद् यद् यदस्ति महद्वसु ।

तत् तद् देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 17

श्रद्धया परया दद्यात् क्रमशस्तस्य पारगः ।

शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 18

सत्यार्जवरतो यत्तः शुचिः शौचपरायणः ।

श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छ्रृणु ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 19

शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।

संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 20

रूपवान् सुभगो दान्तः सत्यवादी जितेन्द्रियः ।

दानमानग्रहीता च कार्यो भवति वाचकः ॥ ३.१३२.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 21

अविलम्बमनायस्तमद्रुतं घोरमूर्जितम् ।

असंसक्ताक्षरपदं न च भावसमन्वितम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 22

त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।

वाचयेद् वाचकः स्वस्थः स्वाधीनः सुसमाहितः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 23

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 24

ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् ।

नियमस्थः शुचिः श्रोता श‍ृण्वन्स फलमश्नुते ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 25

पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयेत् ।

अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 26

अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।

प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 27

द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।

सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 28

दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः ।

दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 29

तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।

वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 132: श्रवणफलकथने, Verse 30

चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् ।

उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥ ३.१३२.३०॥