Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 1

श्रीकृष्णस्य द्वारवतीगमनम् KRiShNa, praised by sages at puShkara, returns to dvAraka द्वारकां गच्छन्तं श्रीकृष्णस्य पुष्करे ऋषिभ्यः समागमं, ऋषिभिः तस्य स्तवनं वैशम्पायन उवाच ।

गच्छन्नथ महाविप्णुः पुष्करं प्राप्य यादवैः ।

अपश्यन्मुनिमुख्यांस्तु पुस्करस्थान् नृपोत्तम ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 2

ते समेत्य महादेवमृषयो वीतमत्सराः ।

अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 3

प्रोचुर्विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ।

अत्यद्भुतमिदं विष्णो तव वीर्यं जनार्दन ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 4

येन तौ निहतौ युद्धे हंसो डिम्भक एव च ।

यो विचक्रो दुराधर्षो देवैरपि सुदुःसहः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 5

सङ्गरे निहतो देव दुःसाध्य इति नो मतिः ।

क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 6

निष्कल्मषा भविष्यामस्तव संस्मरणाद्धरे ।

त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 7

त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।

त्वं हि नः सततं धाता विधाता तपसो हरे ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 8

त्वमोङ्कारो वषट्कारस्त्वं यज्ञस्त्वं पितामहः ।

त्वं ज्योतिर्ब्रह्मणो मूर्तित्वं ब्रह्मा रुद्र एव च ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 9

प्राणस्त्वं सर्वभूतानामन्तरात्मेति कथ्यते ।

उपास्यः सर्वभूतानां यज्ञैर्दानैर्जगत्पते ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 10

नमो विश्वसृजे देव नमस्ते विश्वमूर्तये ।

पाहि लोकमिमं देव हत्वा ब्रह्मद्विषः सदा ॥ ३.१३१.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 11

स तथेति हरिर्विष्णुर्ययौ द्वारवतीं पुरीम् ।

अवसद्वृष्णिभिः सार्ध स्तूयमानः समागधैः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 12

इयं च देवदेवस्य चेष्टा हि जनमेजय ।

प्रोक्ता ते पृच्छते राजन्किमन्यच्छ्रोतुमिच्छसि ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 131: एकत्रिंशदधिकशततमोऽध्यायः, Verse 131

इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि द्वारकायां कृष्णस्य प्रत्यागमने एकत्रिंशदधिकशततमोऽध्यायः ॥ १३१॥