Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 1

नन्दयशोदयोर्गोवर्धने श्रीकृष्णदर्शनम् Yashoda and nandagopa meet kRiShNa गोपगोपीभिःसहितेन यशोदानन्दयोः गोवर्धनपर्वते आगत्वा श्रीकृष्णबलभद्राभ्यां समागमम् ।

वैशम्पायन उवाच ।

यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।

गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 2

नवनीतं च दधि च पायसं कृसरं तथा ।

वन्यं पुष्पं महाराज मयूराङ्गदमेव च ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 3

बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।

जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 4

क्वचिद् वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।

ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 5

प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।

दर्शयामासतुर्देवौ पायसानि महान्ति च ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 6

तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।

अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 7

अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।

अपि वा दारका मातर्वत्सपालाः पिबन्ति च ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 8

बहूनि चापि दामानि कीलका अपि वा बहु ।

तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 9

शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।

अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 10

घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।

किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ॥ ३.१३०.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 11

हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।

गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 12

नन्द उवाच ।

सर्वमेतद् यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।

कुशलं गोधनस्यैव सर्वकालेषु केशव ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 13

रक्षणात् तव देवेश सदा कुशलिनो वयम् ।

सगोधनाः सवत्साश्च नीरोगा इव केशव ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 14

एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।

यदेतत् केवलं दुःखमिति धीः शीर्यते सदा ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 15

वैशम्पायन उवाच ।

एवमादि विलप्यन्तं गच्छेत्याह स केशवः ।

यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 16

ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।

ये केचित् त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 17

मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।

इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 18

गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।

यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 19

ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।

गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 20

य एतच्छृणुयान्नित्यं पठेद् वापि समाहितः ।

पुत्रवान् धनवांश्चैव अन्ते मोक्षं च गच्छति ॥ ३.१३०.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 130: त्रिंशदधिकशततमोऽध्यायः, Verse 130

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि यशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः ॥ १३०॥