भविष्यपर्व, अध्याय 128: अष्टाविंशत्यधिकशततमोऽध्यायः, Verse 1
हंसवधम् Killing of haMsa श्रीकृष्णेन हंसस्य वधं वैशम्पायन उवाच ।
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव सम्बभौ ॥ १॥
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
हंसवधम् Killing of haMsa श्रीकृष्णेन हंसस्य वधं वैशम्पायन उवाच ।
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव सम्बभौ ॥ १॥
उत्प्लुत्य स रथात्तस्माद् यमुनामभ्यधावत ।
यत्र कृष्णो हृषीकेशः कालियाहिं ममर्द ह ॥ २॥
महाह्रदं महारौद्रं यावत्पातालसंस्थितम् ।
तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत् ॥ ३॥
तस्मिन् ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस्तु महान् रावो बभूव ह ॥ ४॥
गिरीणां पात्यमानानां समुद्र इव वज्रिणा ।
रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह ॥ ५॥
देवदेवो जगन्नाथो जगद् विस्मापयन्निव ।
प्राहरन् तं महाबाहुः पादाभ्यामथ केशवः ॥ ६॥
पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि ॥ ७॥
अन्ये पातालमायातो भक्षितः पन्नगैरिति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम ॥ ८॥
यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ।
हते तस्मिन् महाराज धर्मपुत्रो युधिष्ठिरः ॥ ९॥
अकरोत् राजसूयं च तव पूर्वपितामहः ।
यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम् ॥ ३.१२८.१०॥
स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो ।
क्षणादेव महाराज वार्तेयं गामगाहत ॥ ११॥
हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ।
जगुर्गन्धर्वपतयो देवलोके दिवानिशम् ॥ १२॥
कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे हंसो निहत इत्यपि ॥ १३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवधे अष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८॥