भविष्यपर्व, अध्याय 124: हंसडिम्भकोपाख्याने, Verse 1
हंसबलभद्रयोर्युद्धम् Hamsa - balarAma battle हंसबलभद्रयोः युद्धं वैशम्पायन उवाच ।
बलदेवस्तु धर्मात्मा धनुरादाय सत्वरं जघान हंसं दशभिर्बाणैर्बाणभृतां वर ॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
हंसबलभद्रयोर्युद्धम् Hamsa - balarAma battle हंसबलभद्रयोः युद्धं वैशम्पायन उवाच ।
बलदेवस्तु धर्मात्मा धनुरादाय सत्वरं जघान हंसं दशभिर्बाणैर्बाणभृतां वर ॥
तं प्रत्यविध्यन्नाराचैर्हंसः पञ्चभिराशुगैः तानन्तरे हली छित्त्वा नाराचैर्दशभिः पुनः ।
नाराचेनाशु विव्याध ललाटे हंसमोजसा ॥ २॥
दृढं पतन् स नाराचस्तस्य संज्ञां समाददे ।
रथोपस्थे चिरं स्थित्वा तूणाद् बाणं समाददे ॥ ३॥
लब्ध्वा हंसः स संज्ञां तु विद्ध्वा तेन यदूत्तमम् ।
सिंहवद् व्यनदद्धंसो देवान् विस्मापयन् रणे ॥ ४॥
ततः क्रुद्धो हली विद्धस्तेन बाणेन माधवः ।
वमञ्छोणितमत्युष्णं निःश्वसंश्च रणाजिरे ॥ ५॥
लोहिताविष्टगात्रस्तु कुङ्कुमार्द्र इवाभवत् ।
नाराचैः शतसाहस्रैरर्दयामास माधवः ॥ ६॥
हंसं हंसगतिं वीरं नीलवासा हलायुधः ।
ते मुक्ता निशिता घोरा नाराचाश्च सुवाजिनः ॥ ७॥
रथे ध्वजे तथा चापे चक्रे तूणीद्वये नृप ।
पतिताः सर्वतो राजन् व्यथां चैव तथा ददुः ॥ ८॥
ततः क्रुद्धो महाराज हंसो वीर्यमदान्वितः ।
शरेण हलिनं विद्ध्वा ध्वजं चिच्छेद कालवित् ॥ ९॥
शरैश्चतुर्भिरश्वांश्च सूतं प्रेताधिपे ददौ ।
ततः क्रुद्धो हली तस्मै गदां गृह्य महारणे ॥ ३.१२४.१०॥
आपपात महाबाहुर्हंसं शेष इव श्वसन् ।
तया रथं ध्वजं चक्रमश्वान् सूतं हलायुधः ।
बभञ्ज तिलशः सर्वं ननाद च पुनः पुनः ॥ ११॥
भूयश्च गदया हंसं चिक्षेप च बली किल ।
सोऽपि हंसो गदां गृह्य रथात्तस्मादवापतत् ॥ १२॥
ततस्तौ हंसहलिनौ युयुधाते महारणे ।
महारथौ महाबाहू लोके प्रथिततेजसौ ॥ १३॥
अत्यद्भुतं सुविक्रान्तौ परस्परवधैषिणौ ।
कृतश्रमौ महायुद्धे हंसविक्रान्तगामिनौ ॥ १४॥
यथा देवासुरे युद्धे शक्रवृत्रौ पुराम्बरे ।
उभौ संसिक्तसर्वाङ्गौ शोणितेन महारणे ॥ १५॥
अत्यन्तखेदिनौ युद्धे परस्परबलेन ह ।
ततश्च दक्षिणं मार्गं बलभद्रोऽन्वगच्छत ॥ १६॥
सव्यं तु हंसो राजेन्द्र व्यगृह्णात् स्वयमेव हि ।
पोथयाञ्चक्रतुर्युद्धे गदाभ्यां गजविक्रमौ ॥ १७॥
यथाप्राणं महाबाहू जघ्नतुर्मरणाय तौ ।
अतिप्रवृद्धं सङ्ग्रामं देवासुररणोपमम् ॥ १८॥
विदधाते महारङ्गे पश्यतां त्रिदिवौकसाम् ।
देवाश्च मुनयश्चैव विस्मयं परिजग्मिरे ॥ १९॥
अहो खल्वीदृशं युद्धं दृष्टं पूर्वं न च श्रुतम् ।
इत्यूचुर्विस्मयवशाद् देवगन्धर्वकिन्नराः ॥ ३.१२४.२०॥
परस्परकृतोत्साहौ चक्रतुर्युद्धमुत्तमम् ।
अथ हंसो महारङ्गे दक्षिणं दक्षिणोत्तमः ।
व्यचरन्मार्गमत्यर्थं सव्यं तु बलवान् बलः ॥ २१॥
निकुञ्च्य जानुनी पूर्वं चक्रतुर्गदया भृशम् ।
रणे रणविदां श्रेष्ठौ पश्यतां त्रिदिवौकसाम् ॥ २२॥