भविष्यपर्व, अध्याय 120: हंसडिम्भकोपाख्याने, Verse 1
स्रीकृष्णस्य पुष्करं प्रति गमनम् KRiShNa sets out for puShkara भगवता श्रीकृष्णेन यादवसेनासहितं पुष्करतीर्थं गत्वा हंसडिम्बकयोः प्रतीक्षणं वैशम्पायन उवाच ।
प्रविश्य स पुरं विष्णोः सात्यकिः शिनिपुङ्गवः ।
आचचक्षेऽथ कृष्णाय यथा वृत्तं तयोस्तथा ॥ १॥