भविष्यपर्व, अध्याय 119: हंसडिम्भकोपाख्याने, Verse 1
सात्यकिप्रतिप्रयाणम् SAtyaki returns to dvAraka हंसडिम्भकयोः सात्यकिं प्रति रोषपूर्णं वचनानि तथा सात्यकिना तान् तथैवोत्तरं दत्त्वा द्वारकां प्रति प्रस्थानं वैशम्पायन उवाच ।
ततः क्रुद्धौ महाराज हंसो डिम्भक एव च ।
इदं वै प्रोचतुर्वाक्त्यं रोषव्याकुलितेक्षणौ ॥ १॥