Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 1

सात्यकिवाक्यम् SAtyaki conveys kRiShNa's message जनार्दनेन हंसं श्रीकृष्णदर्शनजनितस्य उल्लासस्य कथनं, द्वारकायां हंसस्य सन्देशस्य प्रतिक्रियां वर्णयित्वा तं राजसूय अकरणस्य परामर्शं, हंसेन तं रोषपूर्वकं तिरस्कृत्य गमनस्यादेशं, तदनन्तरं सात्यकिना हंसं श्रीकृष्णस्य सन्देशं श्रावयित्वा भर्त्सनम ।

वैशम्पायन उवाच ।

इत्युक्तवति हंसे च धर्मात्माथ जनार्दनः ।

उवाच प्रहसन् वीरः स्तुवन् नारायणं सदा ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 2

अद्राक्षमद्राक्षमहं जनार्दनं हस्तस्थशङ्खं वरचक्रधारिणम् ।

आतप्तजाम्बूनदभूषिताङ्गदं स्फुरत्प्रभाद्योतितरत्नधारिणम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 3

अद्राक्षमेनं यदुभिः पुरातनः संसेव्यमानं मुनिवृन्दमुख्यैः ।

संस्तूयमानं प्रभुभिः समागधैः स्मितप्रवालाधरपल्लवारुणम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 4

अद्राक्षमेनं कविभिः पुरातनैर्विविच्य वेद्यं विधिवत्सहामरैः ।

प्रफुल्लनीलोत्पलशोभितं श्रिया विनिद्रहेमाब्जविराजितोदरम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 5

भूयोऽहमद्राक्षमजं जगद्गुरुं प्रमोदयन्तं वचनेन यादवान् ।

निरूपयन्तं विधिवन्मुनीश्वरैः प्रवृत्तवेदार्थविधिं पुरातनैः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 6

अद्राक्षमद्राक्षमहं पुनः पुनः समस्तलोकैकहितैषिणं हरिम् ।

वसन्तमस्मिञ्जगतो हिताय जगन्मयं तान् परिभूय शत्रून् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 7

भूयोऽप्यपश्यं सह यादवेश्वरैर्विक्रीडमानं च विहारकाले ।

रमन्तमीड्यं रमयन्तमीश्वरान् यदूत्तमान् यादवमुख्यमीश्वरम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 8

भूयोऽप्यपश्यं सरसीरुहेक्षणं समेतया भीष्मतनूजया हरिम् ।

वसन्तमम्भोनिधिशायिनं विभुं भक्तप्रियं भक्तजनास्पदं शिवम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 9

अद्राक्षमद्राक्षमहं सुनिर्वृतः पिबन् पिबंस्तस्य वपुः पुरातनम् ।

नेत्रेण मीलद्विवरेण केवलं धन्योऽहमस्मीति तदा व्यचिन्तयम् ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 10

अद्राक्षमम्भोजयुगं दधानं प्रभुं विभुं भूतमयं विभावनम् ।

आद्यं ककुद्मानमुरुं विभावसुं संस्मृत्य संस्मृत्य तमेव निर्वृतः ॥ ३.११८.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 11

अद्राक्षं जगतामीशं वक्षोराजितकौस्तुभम् ।

वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 12

युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।

स्मरन्तं सर्वदा विष्णुं क्व चैवं क्व च वेत्ति कः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 13

क्व च द्रक्ष्यामि तौ मन्दौ कुतो वा मत्पुरोगतौ ।

ध्यायन्तमित्थं देवेशं करे शङ्खवहं सदा ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 14

हसन्तमेनमद्राक्षं करदं हास्यतत्परम् ।

वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 15

ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरम् ।

दृष्ट्वाहं तं हरिं देवं पुनः पुनरचिन्तयम् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 16

असाध्यमिदमारब्धं ताभ्यामिति नृपोत्तम ।

नारब्धव्यमिदं कार्यमितःप्रभृति भूमिप ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 17

निवृत्ता सा कथा हंसाचिन्तयद् ग्रहणं तव ।

तद् वृत्तमखिलं सर्वं वदिष्यति हि सात्यकिः ।

एतद् वचनमाकर्ण्य हंसः कुद्धोऽब्रवीद् वचः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 18

हंस उवाच ।

अरे ब्राह्मणदायाद का नाम तव वागियम् ।

आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुमिच्छतोः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 19

मायया त्वां भ्रामयति कृष्णो लीलाविधानवित् ।

तं दृष्ट्वा भ्रम एवैष तव सञ्जायते महान् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 20

शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ।

वृष्णिवीरं समावेक्ष्य समुच्छ्रितयशोधरम् ॥ ३.११८.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 21

सूतमागधसंस्तावप्रकटद्बाहुवीर्यकम् ।

अत्यद्भुतयशोराशिं विक्रमाल्लोकमण्डनम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 22

चतुर्भुजं बलाक्रान्तं वृष्णियादवसम्मतम् ।

अहोऽद्य भ्रम एवैष दर्शनात् तस्य चक्रिणः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 23

इदानीं च महाराज भ्रामयत्येव दुर्मतिः ।

त्वामेव विप्र मन्दात्मन्निन्द्रजालिकता हि या ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 24

चापल्यमिदमैवैतत् तव विप्र भ्रमोद्भवम् ।

अहो हि खलु सादृश्यं वक्तव्यं भवता मम ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 25

अहमेव त्वया विप्र मर्षये प्रोदितं वचः ।

सखिभावाद् द्विजश्रेष्ठ अन्यथा कः सहेदिदम् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 26

गच्छ मन्दमते विप्र यथेष्टं साम्प्रतं तव ।

द्विज गच्छ यथेष्टं त्वं पृथिवीं पृथिवी तव ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 27

जित्वा गोपालदायादं हत्वा यादवकान् बहून् ।

एष नः प्रथमः कल्पो जेष्याम इति यादवान् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 28

गच्छ गच्छेति विप्र त्वं धृष्टं परुषवादिनम् ।

शत्रुपक्षस्तुतिपरं सह युक्त्वा सदा मया ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 29

न मे विप्रवधः कार्यः कष्टादपि हि सर्वतः ।

इत्युक्त्वा ब्राह्मणं भूयो हंसः सात्यकिमब्रवीत् ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 118: हंसडिम्भकोपाख्याने, Verse 30

भो भो यादवदायाद किमर्थं प्राप्तवानिह ।

किमब्रवीन्नन्दसुतः किं वासौ मेऽदिशत् करम् ॥ ३.११८.३०॥