भविष्यपर्व, अध्याय 117: हंसडिम्भकोपाख्याने, Verse 1
हंसवाकय्म् Speech of haMsa सात्यकिसहितस्य जनार्दनस्य शाल्वनगरे गमनं, हंसेन सह मिलनं, हंसेन जनार्दनात् कार्यसिद्धिविषये पृच्छा वैशम्पायन उवाच ।
इत्युक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनराह सः ।
गत्वा शैनेय विप्रेण ब्रूहि मद्वचनात् तयोः ॥ १॥