भविष्यपर्व, अध्याय 115: पञ्चदशाधिकशततमोऽध्यायः, Verse 1
दूतस्य संदेशनिवेदनम् JanArdana conveys the demands of hamsa and Dimbhaka जनार्दनस्य सुधर्मासभायां गत्वा भगवतः श्रीकृष्णस्य दर्शनेन सन्तुष्टो भूत्वा तस्याज्ञया भगवत्स्तवनपूर्वकं हंसडिम्भकयोः सन्देशस्य श्रावणं वैशम्पायन उवाच ।
स निवेदितसर्वस्वो द्वाःस्थेन हि जनार्दनः ।
अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः ॥ १॥