Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने

Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 1

श्रीकृष्णं प्रति दुर्वससो वाक्यम् DurvAsa complains to kRiShNa श्रीकृष्णस्य गोलक्रीडा, सुधर्मासभायां दुर्वासादीनां मुनीनां आगमनं, यादवेभिः कृष्णेन च तेषां सत्कारं, श्रीकृष्णेन तेभ्यः आगमनस्य कारणस्य पृच्छा, दुर्वाससा भगवतः स्तुति एवं उपालम्भनपूर्वकं तस्य प्रश्नस्य प्रतिवादं कृत्वा स्वदुर्दशायाः वृत्तान्तकथनं वैशम्पायन उवाच ।

अथ सर्वेश्वरो विष्णुः पद्मकिञ्जल्कलोचनः ।

श्यामः पीताम्बरः श्रीमान् प्रलम्बाम्बरभूषणः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 2

किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।

अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 3

क्रीडाविहारोपगतः कदाचिदभवद्धरिः ।

कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 4

गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः ।

चकार प्रियकृत् कृष्णो युयुधानेन केशवः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 5

ममायं प्रथमो गोलस्तव पश्चाद् भविष्यति ।

इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 6

पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः ।

उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 7

अन्यव्यापाररहितो भूतात्मा भूतभावनः ।

विजहार यथा रामः सुग्रीवेण पुरा नृप ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 8

मध्यन्दिने महाविष्णुः शैनेयेन सहाच्युतः ।

विक्रीड्य सुचिरं कृष्ण उपारंसीत् स यादवः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 9

द्वाःस्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः ।

इदमन्तरमित्येव विविशुस्तां सभां नृप ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 10

यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।

दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम् ॥ ३.१११.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 11

गोलक्रीडासमासक्तं करसंस्थितगोलकम् ।

पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 12

एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् ।

यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 13

वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः ।

वसुदेवस्तथाक्रूरः उग्रसेनस्तथा नृप ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 14

अन्ये च यादवाः सर्वे सम्भ्रमं प्रतिपेदिरे ।

इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 15

पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् ।

अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 16

अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।

अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 17

नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।

दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 18

किं करिष्यत्यसौ क्रुद्धः कि वा वक्ष्यति नः प्रभुः ।

इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 19

इदमासनमित्येवं किञ्चिदूचुश्च वृष्णयः ।

ततः कृष्णो हृषीकेशः किञ्चिदुत्प्लुत्य तत्पुरः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 20

इदमासनमित्येवं स्थीयतामिह निर्वृतः ।

अहमद्य स्थितो विप्र किङ्करोऽस्मीति चाव्रवीत् ॥ ३.१११.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 21

ततः किञ्चिदिवासीन आसने यतिविग्रहः ।

आसने संस्थिते तस्मिन् यतयो वीतमत्सराः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 22

आसनानि यथायोगं भेजिरे निर्वृताः किल ।

अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 23

आह भूयो हृषीकेशो यतिं दुर्वाससं प्रभुम् ।

किमर्थं ब्रूहि विप्रेन्द्र अस्मिन् प्रत्यागमो हि वः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 24

दृष्टं वा ह्यथवा किञ्चित् कारणं चास्ति वो महत् ।

संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 25

निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः ।

प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 26

स्पृहाप्रेरितकर्माणः क्षत्रियान् यान्ति सुव्रताः ।

निरूप्यमाणमस्माभिर्विप्र किञ्चिन्न दृश्यते ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 27

न जाने कारणं ब्रह्मन् युष्मदागमनं प्रति ।

एतावता चानुमेयं किएचित्कारणमस्ति वै ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 28

तद् ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ।

इत्युक्तवति देवेशे चक्रपाणौ जनार्दने ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 29

तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् ।

तस्मादभ्यधिकः पूर्वात् कोपः सञ्जायते महान् ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 111: हंसडिम्भकोपाख्याने, Verse 30

दिधक्षन्निव लोकांस्त्रीन् भक्षयन्निव पश्यतः ।

रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव ॥ ३.१११.३०॥