Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 1

यतीनां द्वारकागमनम् The sages go to dvAraka दुर्वासादीनां मुनीनां द्वारकागमनं वैशम्पायन उवाच ।

ततस्तौ हंसडिम्भकौ क्रुद्धौ कालेन चोदितौ ।

शिक्यं कमण्डलुं चैव द्विदलं दारुमेव च ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 2

दण्डान् पात्रविशेषांश्च छित्त्वा भित्त्वा च सर्वशः ।

तस्मिन् देशे महाराज व्याधैर्मांसान्यदीदहन् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 3

भक्षयित्वा ततो देशात् स्वपुरीं तौ प्रजग्मतुः ।

जनार्दनश्च धर्मात्मा स्नेहादनुययौ तयोः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 4

नष्टाविमाविति तदा स मेने दुःखितः परम् ।

गतेषु तेषु सर्वेषु दुर्वासा यतिसत्तमः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 5

पलायनपरान् सर्वानिदं प्राह यतीश्वरान् ।

इतो देशाद्विनिर्गत्य पुष्करात्पुण्यसंयुतात् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 6

मन्दं मन्दं समाश्वस्य विश्रम्य च ततस्ततः ।

प्रविश्य द्वारकां देवं शङ्खचक्रगदाधरम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 7

दृष्ट्वा च तस्मै प्रभवे वक्ष्यामो यतिसत्तमाः ।

स हि रक्षञ्जगदिदं धर्मवर्त्मनि संस्थितः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 8

आद्यो लोकगुरुर्विष्णुर्यतात्मा तत्त्ववित्प्रियः ।

उद्धृत्य कण्टकान् सर्वाञ्छशास पृथिवीमिमाम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 9

स च पापान् महाघोरान् सर्वान् पापकृतान् प्रभुः ।

रक्षेन्नः सकलान् सर्वांज्ञानेषु नियतात्मनः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 10

इदमद्य क्षमं विप्रा यानमद्य विधीयताम् ।

साहसं यत्कृतं ताभ्यां पात्रभेदादि सत्तमाः ॥ ३.११०.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 11

एतत् सर्वमशेषेण दर्शयाम जनार्दनम् ।

तथेति ते प्रतिज्ञाय यतयो ज्ञानचक्षुषः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 12

छिन्नं ताभ्यां समादाय शिक्यं दारुमयं तथा ।

द्विदलं कर्पटं चैव कौपीनमथ वल्कलम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 13

कमण्डलुं तथा राजन्नर्धप्रोतकपालकम् ।

एतानन्यान् समादाय द्रष्टुं केशवमाययुः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 14

पञ्च चैव सहस्राणि पुरस्कृत्य महामुनिम् ।

दुर्वाससं तपोयोनिमीश्वरस्यात्मसम्भवम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 15

अहोरात्रेण ते सर्वे द्वारकां कृष्णपालिताम् ।

ययुर्दान्ता महात्मानो लोमशाः केशवर्जिताः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 16

प्रातः प्रविश्य राजेन्द्र वापिकायां यतीश्वराः ।

स्नात्वोपस्पृश्य ते सर्वे यत्नेन महता तदा ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 17

द्रष्टुमभ्युद्यता विष्णुं कण्टकोद्धृतितत्परम् ।

एकरूपं समास्थाय सुधर्मायामवस्थितम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 110: दशाधिकशततमोऽध्यायः, Verse 110

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतीनां द्वारकागमने दशाधिकशततमोऽध्यायः ॥ ११०॥