Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 1

दुर्वाससो भाषणम् DurvAsa chides hamsa and Dimbhaka दुर्वाससः रोषं, हंसेन तेषां तिरस्करणं, दुर्वाससा ताभ्यां शापदानं, जनार्दनाय वरदानं वैशम्पायन उवाच ।

ततः क्रुद्धोऽथ दुर्वासा धक्ष्यन्निव तयोरसून् ।

एकेनाक्ष्णाथ दुर्वासा रौद्रेणाग्नियुजा सदा ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 2

पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।

कुर्वन्निव तदा लोकान् भस्मभूतानिमान् नृप ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 3

ब्राह्मणं चक्षुषा पश्यन् सौम्येनान्येन केवलम् ।

उवाच वचनं राजन् ध्वंसत ध्वंसतेतरान् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 4

इतो गच्छत राजानौ किं विलम्बत मा चिरम् ।

न वां वचनसम्भूतं रोषं धारयितुं क्षमे ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 5

अन्यथा वो महीपालान्सर्वान् दग्धुमहं क्षमः ।

किमतः साहसं वक्तुं कश्च शक्नोति मत्परः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 6

दर्पं वां लोकविख्यातः शङ्खचक्रगदाधरः ।

व्यपनेष्यति मन्दज्ञौ किं वां वक्ष्यामि साम्प्रतम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 7

तत उत्थाय धर्मात्मा गन्तुमैच्छद् यतीश्वरः ।

ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 8

तस्य बाहुं समादाय हंसो नृपवरोत्तम ।

कौपीनं चिच्छिदे क्रूरः कृतान्त इव सत्तम ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 9

यतयोऽन्ये पलायन्ति दिशो दश विचेतसः ।

कष्टं हेति वदन् विप्रो मित्रभावाज्जनार्दनः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 10

न्यवारयद् यथाशक्ति किमिदं साहसं त्विति ।

दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः ॥ ३.१०९.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 11

मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च ।

शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 12

तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् ।

यो दि देवो जगन्नाथः केशवो यादवेश्वरः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 13

शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति ।

लोके तस्मिन् यदुश्रेष्ठे रक्षत्येवं जगत्पतौ ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 14

युवयोः सर्वथा जीवः सज्जीव इति मे मतिः ।

जरासन्धोऽपि वां बन्धुः स च वक्तुं न चेच्छति ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 15

ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ।

एतावता स वां बन्धुर्न हि भूयो भविष्यति ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 16

विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः ।

श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 17

धर्मनाशो भवेत् तस्य नात्र कार्या विचारणा ।

इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 18

जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः ।

स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 19

संसृतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः ।

अद्य श्वो वा परश्वो वा साधुरेव सदा भवान् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 109: हंसडिम्भकोपाख्याने, Verse 20

न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि ।

गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ॥ ३.१०९.२०॥