भविष्यपर्व, अध्याय 107: हंसडिम्भकोपाख्याने, Verse 1
दुर्वासोदर्शनम् Hamsa and Dimbhaka in durvAsa Ashrama सेनासहितस्य हंसडिम्भकाभ्यां पुष्करतटे विश्रमणं, महर्षेः कश्यपस्य वैष्णवसत्रस्य दर्शनं, दुर्वासादीनां यतीनां समुदाये गत्वा तेषां प्रति स्वाश्रद्धायाः प्रदर्शनं वैशम्पायन उवाच ।
जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च ।
सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान् ॥ १॥