Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः

Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 1

काश्यपवर्णनम् Legend of divodasa, king of kAshi अनेनसः वंशवर्णनम्, धन्वन्तरेः काशिराजस्य धन्वस्य पुत्ररूपेण अवतरणम्, दिवोदास्य राज्यकाले शिवाज्ञया गणेश्वर निकुम्भेन वाराणसीं जनशून्यं कर्तुं प्रयत्नम्, तत्र शिवपार्वत्योः निवासं, दिवोदासस्य वाराणस्योपरि अधिकारः एवं अलर्कस्य प्रशंसा अनेना के वंश का वर्णन, धन्वन्तरि का काशिराज धन्व के यहाँ पुत्ररूप में अवतार, दिवोदास के राज्यकाल में भगवान् शिव की आज्ञा से गणेश्वर निकुम्भ के द्वारा वाराणसी को जनशून्य वनाने का प्रयत्न, वहाँ शिव और पार्वती का निवास, दिवोदास का वाराणसी पर अधिकार और अलर्क की प्रशंसा वैशम्पायन उवाच ।

रम्भोऽनपत्यस्तत्रासीद् वंशं वक्ष्याम्यनेनसः ।

अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 2

प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः ।

सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 3

विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः ।

हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 4

सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।

नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 5

सङ्कृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः ।

अनेनसः समाख्याताः क्षत्रवृद्धस्य मे श‍ृणु ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 6

क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।

सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 7

ञ्ज्रात्रस्य दायादास्त्रयः परमधाआमकाः तं ६ ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 7

काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।

पुत्रो गृत्समदस्यापि शुनको यस्य शौनकाः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 8

ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।

शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 9

काशस्य काशयो राजन् पुत्रो दीर्घतपास्तथा ।

धन्वस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 10

तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।

पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ॥ १.२९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 11

जनमेजय उवाच ।

कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।

एतद् वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 12

वैशम्पायन उवाच ।

धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ ।

जातः स हि समुद्रात्तु मथ्यमाने पुरामृते ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 13

उत्पन्नः कलशात् पूर्वं सर्वतश्च श्रिया वृतः ।

अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 14

अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।

अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 15

विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ।

एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 16

कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ।

देवेषु विनियुक्तं हि विद्धि होत्रं महर्षिभिः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 17

न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन ।

अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु नहीश्वरः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 18

द्वितीयायां तु सम्भूत्यां लोके ख्यातिं गमिष्यसि ।

अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 19

तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।

चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 20

अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि ।

अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ १.२९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 21

द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।

इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 22

द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् ।

पुत्रकामस्तपस्तेपे धन्यो दीर्घं तपस्तदा ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 23

प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।

अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 24

ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।

यदिच्छसि वरं ब्रूहि तत् ते दास्यामि सुव्रत ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 25

नृप उवाच ।

भगवन् यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव ।

तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 26

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।

काशिराजो महाराज सर्वरोगप्रणाशनः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 27

आयुर्वेदं भरद्वाजात्प्राप्येह भिषजां क्रियाम् ।

तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 28

धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।

अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 29: एकोनत्रिंशोऽध्यायः, Verse 29

सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।

दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ २९॥