भविष्यपर्व, अध्याय 105: हंसडिम्भकोपाख्याने, Verse 1
हंसडिम्भकयोर् वरलाभः Hamsa and Dimbhaka obtain boons हंसडिम्भकाभ्यां तपश्चरणं, वरप्राप्तिः, जनार्दनस्य सहितस्य तयोः विवाहः, तेषां त्रयाणां कुमाराणां धर्मनिष्ठा वैशम्पायन उवाच ।
हंसश्च डिम्भकश्चैवं तपश्चर्तुं महामती ।
मनश्चक्रतुरात्मांशौ शङ्करस्य नृपोत्तम ॥ १॥