भविष्यपर्व, अध्याय 104: हंसडिम्भकोत्पत्तौ, Verse 1
हंसडिम्भकोत्पत्तिः Birth of hamsa and Dimbhaka राज्ञा ब्रह्मदत्तेन भगवतः शङ्करस्य आराधनेन हंसडिम्भकाभ्यां पुत्राणां प्राप्तिः, राजसखेन विप्रवरेण मित्रसहेन भगवतः विष्णोः उपासनया जनार्दनसंज्ञकस्य पुत्रस्य लाभः ।
वैशम्पायन उवाच ।
आसीच्छाल्वेषु राजेन्द्र ब्रह्मदत्तो नृपोत्तमः ।
नाम्ना राजन् स पूतात्मा सर्वभूतदयापरः ॥ १॥