भविष्यपर्व, अध्याय 102: द्व्यधिकशततमोऽध्यायः, Verse 1
एकलव्यकथासमाप्ति Ekalavya hounded off एकलव्यस्य द्वीपान्तरगमनं, भगवता श्रीकृष्णेन यादवानां स्वयात्रायाः सङ्क्षिप्त वृत्तान्तकथनं, अन्तःपुरे रुक्मिणीं सत्यभामां च मिलित्वा ताभ्यां सन्तोषप्रदानं वैशम्पायन उवाच ।
निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत् ॥ १॥