Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 1

आयुवंशकथनम् Legend of Ayu राजा रजि और उनके पुत्रों का चरित्र, इन्द्र का अपने स्थान से भ्रष्ट होकर पुनः उस पर प्रतिष्ठित होना वैशम्पायन उवाच ।

आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।

स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 2

नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।

रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 3

रजिः पुत्रशतानीह जनयामास पञ्च वै ।

राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 4

यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।

देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 5

आवयोर्भगवन् युद्धे को विजेता भविष्यति ।

ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 6

ब्रह्मोवाच ।

येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः ।

योत्स्यते ते जयिष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 7

यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।

यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 8

ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।

अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 9

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।

राजा परमतेजस्वी सोमवंशप्रवर्धनः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 10

ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।

ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ १.२८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 11

अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।

स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 12

रजिरुवाच ।

यदि दैत्यगणान् सर्वाञ्जित्वा शक्रपुरोगमाः ।

इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 13

देवाः प्रथमतो भूयः प्रत्यूचुर्दृष्टमानसाः ।

एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 14

श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।

पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 15

दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।

प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः १५ ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 16

अस्माकमिन्द्रः प्रह्लादो यस्यार्थे विजयामहे ।

अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 17

तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।

भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।

जघान दानवान् सर्वान् ये वध्या वज्रपाणिनः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 18

स विप्रणष्टां देवानां परमश्रीः श्रियं वशी ।

निहत्य दानवान् सर्वानाजहार रजिः प्रभुः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 19

ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।

रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 20

इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।

यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ॥ १.२८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 21

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।

तथेत्येवाब्रवीद् राजा प्रीयमाणः शतक्रतुम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 22

तस्मिंस्तु देवसदृशे दिवं प्रान्ते महीपतौ ।

दायाद्यमिन्द्रादाजह्रुराचारात् तनया रजेः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 23

पञ्चपुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।

समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 24

ततो बहुतिथे काले समतीते महाबलः ।

हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 25

इन्द्र उवाच ।

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।

ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 26

ब्रह्मन् कृशोऽहं विमना हृतराज्यो हृताशनः ।

हृतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 27

बृहस्पतिरुवाच ।

यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।

नाभविष्यस्यत्प्रियार्थमकर्तव्यं ममानघ ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 28

प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।

यथा भागं च राज्यं च नचिरात् प्रतिलप्स्यसे ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 28

इति श्रीगहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नामाष्टाविंशोऽध्यायः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 29

तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।

ततः कर्म चकारास्य तेजसो वर्धनं तदा ॥ २९॥