Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 1

सात्यकिपौण्ड्रकयोर्युद्धम् SAtyaki-pauUNraka battle पौण्ड्रकस्य सात्यकिना सह युद्धं वैशम्पायन उवाच ।

ततः क्रुद्धो महाराज सात्यकिर्वृष्णिपुङ्गवः ।

उवाच वचनं राजन् वासुदेवं स्मरन्निव ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 2

अवोचदीदृशं वाक्यं वासुदेवं नृपाधमः ।

को नाम जगतां नाथमित्थं ब्रूयाज्जिजीविषुः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 3

मृत्युस्त्वां सर्वथा याति वदन्तं तादृशं वचः ।

जिह्वा ते शतधा दीर्याद् वदतस्तादृशं वचः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 4

एष ते पातयिष्यामि शिरः कायाच्च पौण्ड्रक ।

यन्नाम वासुदेवेति तव सम्प्रति वर्तते ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 5

यावत् पतति कायात्ते शिरस्तावत्प्रवर्तते ।

स एव श्वो न भगवान् वासुदेवो भविष्यसि ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 6

एक एव जगन्नाथः कर्ता सर्वस्य सर्वगः ।

दुरात्मन् सर्वथा देवो भविष्यति न संशयः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 7

एष तेऽहं शिरः कायात् पातयिष्यामि राजक ।

यदसौ भगवान् विष्णुर्नागमिष्यति साम्प्रतम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 8

अस्त्रवीर्यं बलं चैव सर्वं दर्शय साम्प्रतम् ।

नातः परतरं राजन् वीर्यं च तव वर्तते ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 9

सर्वं दर्शय यत्नेन स्थितोऽस्मि व्यवसायवान् ।

शरी चापी गदी खड्गी सर्वथाहमुपस्थितः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 10

नैतन्नगरमायासीः सत्यमेतद् ब्रवीम्यहम् ।

सर्वथा कृतकृत्योऽस्मि दृष्ट्वा त्वां वासुदेवकम् ॥ ३.९६.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 11

तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ।

इत्युक्त्वा बाणमादाय वासुदेवं महाबलः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 12

आकर्णपूर्णमाकृष्य विव्याध निशितं शरम् ।

स तेन विद्धो यदुना वासुदेवः प्रतापवान् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 13

वमञ्छोणितमत्युष्णमङ्गान्नेत्रान्नृपोत्तम ।

ततश्चुक्रोध नृपतिर्वासुदेवः प्रतापवान् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 14

नवभिर्दशभिश्चैव शरैः सन्नतपर्वभिः ।

विव्याध सात्यकिं राजा नदंश्च बहुधा किल ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 15

ततो नाराचमादाय निशितं यमसन्निभम् ।

धनुराकृष्य भगवान् वासुदेवो नृपोत्तम ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 16

विव्याध सात्यकिं भूयो निशि प्रह्रादयन् स्वकान् ।

नाराचेन समाविद्धः सात्यकिः सत्यसङ्गरः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 17

ललाटे सुदृढं वीरो वृष्णीनामग्रणीस्तदा ।

निषसाद रथोपस्थे निश्चेष्ट इव सत्तमः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 18

ततः स पौण्ड्रको राजा विद्ध्वा दशभिराशुगैः ।

सारथिं पञ्चविंशत्या हयांश्च चतुरो नृप ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 19

ते हया रुधिराक्ताङ्गाः सारथिश्च समन्ततः ।

विह्वलाः समपद्यन्त वासुदेवस्य पश्यतः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 20

वासुदेवो रथे चापि सिंहनादं समाददे ।

तेन नादेन तत्राभूद् विबुद्धः सात्यकिर्नृप ॥ ३.९६.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 21

विद्धान् हयांस्तथा दृष्ट्वा सारथिं च तथागतम् ।

शैनेयोऽथ महावीर्यो रुषितो नृपसत्तम ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 22

अलं द्रक्ष्यामि ते वीर्यमित्युक्त्वा बाणमाददे ।

विव्याध तेन बाणेन वक्षस्येनं महाबलः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 23

ततश्चचाल तेनाजौ वासुदेवः शरेण ह ।

सुस्राव रुधिरं घोरमत्युष्णं वक्षसो नृप ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 24

रथोपस्थे पपाताशु निःश्वसन्नुरगो यथा ।

कृत्यं चापि न जानाति केवलं निषसाद ह ॥ २४॥।

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 25

सात्यकिस्तु रथं विद्ध्वा दशभिः सायकैस्तथा ।

ध्वजं चिच्छेद भल्लेन वासुदेवस्य वृष्णिपः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 26

हयांश्च चतुरो हत्वा बाणैः सारथिमेव च ।

युयुधानोऽथ राजेन्द्र पौण्ड्रकस्य च पश्यतः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 27

सारथेश्च शिरः कायादहरत् स रथात् तदा ।

रथग्रन्थिं च चिच्छेद हयाश्च व्यसवोऽभवन् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 28

चक्रं च तिलशः कृत्वा बाणैर्दशभिरञ्जसा ।

जहास विपुलं राजन् वासुदेवं महाबलः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 29

ततः परं महत्प्रायं सात्यकिर्वृष्णिनन्दनः ।

शब्दं कृत्वा बली साक्षात् सर्वक्षत्रस्य पश्यतः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 96: कैलासयात्रायां, Verse 30

शरैः सप्ततिसङ्ख्याकैरर्दयामास सत्वरम् ।

ते शराः शलभाकारा निपेतुः सर्वशस्तदा ॥ ३.९६.३०॥