भविष्यपर्व, अध्याय 95: रात्रियुद्धे, Verse 1
सात्यकिपौण्ड्रकयोः संवादः SAtyaki-pauNDraka conversation पौण्ड्रकेन पूर्वद्वारस्य प्राकारचयानां भेदनस्य प्रयत्नं, सात्यक्यादि यादववीराणां रक्षार्थं आगमनम्, सात्यकिना वायव्यास्त्रेन पौण्ड्रकसैनिकान् अपनयित्वा पौण्ड्रकस्य युद्धाय आह्वानं, पौण्ड्रकस्य गर्वोक्तिः वैशम्पायन उवाच ।
निवृत्तेष्वथ सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्वथ महाराज हतेषु युधि सर्वतः ॥ १॥