भविष्यपर्व, अध्याय 91: पौण्ड्रकोक्तौ, Verse 1
पौण्ड्रकवृत्तान्तारम्भः Beginning of pauNDraka's story पौण्ड्रकेन राजानां सभायां स्वकं शङ्ख, चक्रादि युक्तं वासुदेवं घोषयित्वा श्रीकृष्णस्य पराजयितुं काङ्क्षाकरणं वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु पौण्ड्रो नृपवरोत्तमः ।
बलवान् सत्त्वसम्पन्नो योद्धा विपुलविक्रमः ॥ १॥