Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 1

श्रीकृष्णसमीपे शिवागमनम् Shri shiva's arrival near shri kRiShNa पिशाचैः, मुनिभिः अप्सरोभिश्च साकं उमासहितस्य भगवतः शङ्करस्य श्रीकृष्णस्य समीपे गमनं वैशम्पायन उवाच ।

तस्याग्रे समपद्यन्त भूतसङ्घाः सहस्रशः ।

घण्टाकर्णो विरूपाक्षः कुण्डधार कुमुद्वहः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 2

दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ।

उरुनेत्रः शतमुखः शतग्रीवः शतोदरः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 3

कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।

पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 4

त्रिबाहुः पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः ।

एते चान्ये च बहवो दीर्घास्या दीर्घलोचनाः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 5

नृत्यन्तः प्रहसन्तश्च स्फोटयन्तः परस्परम् ।

तथान्ये घोररूपाश्च तथान्ये विकृताननाः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 6

प्रेतभक्षाः प्रेतवाहा मांसशोणितभोजनाः ।

शवानि सुबहून्याशु भक्षयन्तस्ततस्ततः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 7

पिबन्तो रुधिरं घोरं खण्डयन्तः शवान् बहून् ।

कराला वितता दीर्घा धमनिस्नायुसन्तताः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 8

नानाविधाः सुवीराश्च शूलाग्रप्रोतमानुषाः ।

शिरोमालावृताः केचिदान्त्रपाशावपाशिताः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 9

डिण्डिमैरट्टहासैश्च नादयन्तो वसुन्धराम् ।

कपालिनो भैरवाश्च जटिला मुण्डिनस्तथा ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 10

एवं बहुविधा घोराः पिशाचा विकृताननाः ।

तथान्ये मुनिवीराश्च ध्यायन्तः परमेश्वरम् ॥ ३.८६.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 11

पठन्तो वेदवाक्यानि साङ्गानि विविधानि च ।

कुण्डि=कास्थकराः केचित्केचित्कुशविचारिणः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 12

कौपीनवसनाः केचित् केचित् कार्पाससंवृताः ।

स्तुवन्तः शङ्करं भक्त्या स्तोत्रैर्माहेश्वरैस्तथा ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 13

एकत्र ते मुनिगणा अपरत्र गणास्तथा ।

अन्यत्र सिद्धगन्धर्वाः प्रियाभिः सह सङ्गताः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 14

नृत्यन्ति नृत्यकुशला गायन्ति स्म च कन्यकाः ।

विद्याधरास्तथान्यत्र स्तुवन्तः शङ्करं शिवम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 15

ननृतुस्तस्य पुरतो गच्छन्तोऽप्सरसां गणाः ।

एवमेतैर्महाघोरैः पिशाचैर्भूतकिन्नरैः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 16

मुनिभिश्चैव प्रमथैः समं शर्वः समाययौ ।

यत्र विश्वेश्वरो विष्णुस्तपस्तेपे सुदारुणम् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 17

यत्र ते लोकपालाश्च तिष्ठन्ति स्म दिदृक्षया ।

उमया लोकभाविन्या गङ्गया चन्द्रशेखरः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 86: कैलासयात्रायां, Verse 18

स सर्वलोकप्रभवो भवो विभुर्जटी च साक्षात् प्रणवात्मकः कृती ।

द्रष्टुं हरिं विष्णुमुदारविक्रमो ययौ यथेष्टं पिशिताशनैर्वृतः ॥ १८॥