Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 1

श्रीकृष्णसमीपे इन्द्रादिदेवआनामागमनम् Indra and others come to watch भगवतः श्रीकृष्णस्य समीपे इन्द्रादीनां देवानां उमासहितस्य भगवतः शिवस्य चागमनं वैशम्पायन उवाच ।

तत इन्द्रः स्वयं तत्र आरुह्य गजमुत्तमम् ।

द्रष्टुं सर्वेश्वरं विष्णुं तपस्यन्तं समाययौ ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 2

ततो यमस्तु भगवानारुह्य महिषं वरम् ।

किङ्करैश्च स्वयं साक्षादाययौ नगमुत्तमम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 3

प्रचेता हंसमारुह्य वारुणैश्च समन्वितः ।

श्वेतच्छत्रसमायुक्तः श्वेतव्यजनवीजितः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 4

ययौ कैलासशिखरं द्रष्टुं केशवमञ्जसा ।

अन्ये चापि तथा देवा आदित्या वसवस्तथा ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 5

रुद्राश्चैव तथा राजन् द्रष्टुं केशवमाययुः ।

सिद्धाश्च मुनयश्चैव गन्धर्वा यक्षकिन्नराः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 6

सर्वाश्चाप्सरसो राजन् नृत्यगीतविशारदाः ।

ततो देवगणः सर्वः कैलासं समपद्यत ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 7

पर्वतो नारदश्चैव तथान्ये मुनिसत्तमाः ।

विस्मयस्थितलोलाक्षाः सर्वदेवगणास्तथा ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 8

आश्चर्यं खलु पश्यध्वं न भूतं न भविष्यति ।

योगिध्येयः स्वयं कृष्णो यत्तप्यति गुरुः स्वयम् ।

को न्वत्र समयो भूयादिति ते मेनिरे गणाः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 9

ततः समाप्ते सकले जगत्पतेर्व्रते समूले सकलेश्वरः शिवः ।

द्रष्टुं हरिं लोकहितैषिणं प्रभुं ययौ भवान्या सह भूतसङ्घैः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 10

सार्धं कुबेरेण सगुह्यकेन सख्या प्रियेण प्रभुरीश्वरः शिवः ।

स्वयं जटी भूतपिशाचसंवृतः शरी च खड्गी शशिखण्डशेखरः ॥ ३.८५.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 11

करेण बिभ्रत्सहदर्भकुण्डिकां करेण साक्षादपरेण दीपिकाम् ।

अन्येन विभ्रन्महतीं स डिण्डिमां शूलं च बिभ्रन्नपरेण बाहुना ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 12

गुणान् स रुद्राक्षकृतान् समुद्वहञ्जटाभिरापिङ्गलताम्रमूर्तिः ।

विराजमानः प्रभुरिन्दुशेखरो वृषेण युक्तः स सितेन शङ्करः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 13

उमास्तनद्वन्द्वसमर्पिताननस्तथा समाश्लिष्य निपीडिताधरः ।

गङ्गाम्बुविक्षालितचन्द्रशेखरस्तां चापि वीक्षन् बहुशस्तदा शिवः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 14

भस्माङ्गरागैरनुलेपिताननो महोरगैर्बद्धजटः सनातनः ।

शिरःकपालैः परिशोभितस्तदा द्रष्टुं हरिं केशवमभ्ययाच्छिवः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 15

यमाहुरग्र्यं पुरुषं महान्तं पुरातनं साङ्ख्यनिबद्धदृष्टयः ।

यस्यापि देवस्य गुणान् समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 16

यमाहुरेकं पुरुषं पुरातनं कणादनामानमजं महेश्वरम् ।

दक्षस्य यज्ञं विनिहत्य यो वै विनाश्य देवानसुरान् सनातनः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 17

यं विदुर्भूततत्त्वज्ञं भूतेशं भूतभावनम् ।

वामदेवं विरूपाक्षमाहुस्तत्त्वविदो जनाः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 18

महादेवं सहस्राक्षं कालमूर्तिं चतुर्भुजम् ।

रुद्रं रोदननामानमाहुर्विश्वेश्वरं शिवम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 19

अप्रमेयमनाधारमाहुर्माहेश्वरा जनाः ।

नग्नं नग्नपरीतं तु नागिनं त्वग्निवर्चसम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 20

आहुर्विश्वेश्वरं शान्तं शिवमादिं सनातनम् ।

तस्य मूर्तिरिमाः सर्वा धराद्याः सकला नृप ॥ ३.८५.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 21

भूमिरापोऽनलो वायुः खं सूर्यश्च तथा शशी ।

अग्निश्च यजमानश्च प्रकृतिश्चैवमष्टधा ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 85: कैलासयात्रायां शिवागमनकथने, Verse 22

महादेवो महायोगी गिरीशो नीललोहितः ।

आदिकर्ता महाभर्ता शूलपाणिरुमापतिः ।

द्रष्टुं विश्वेश्वरं विष्णुं भूतसङ्घैः समाययौ ॥ २२॥