Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 1

घण्टाकर्णस्य मुक्तिः GhaNTAkarNa attains liberation घण्टाकर्णेन भगवन्तं श्रीकृष्णं उपहारसमर्पणं, भगवता तं वरप्रदानं, मृतस्य ब्राह्मणस्य जीवनदानं वैशम्पायन उवाच ।

विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।

ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 2

द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।

ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 3

विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।

इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 4

गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।

भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 5

भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।

दत्तं यद् भक्तिनम्रेण ग्राह्यं तत् स्वामिना हरे ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 6

नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।

अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 7

तस्माद् गृहाण भगवन् यदि दोषो न विद्यते ।

इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 8

दातुमैच्छत् तदा खण्डमस्पृश्यं तु शवस्य ह ।

ततः प्रीतोऽभवत् तस्मै मनसा पूजयच्च तम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 9

अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।

इति सञ्चिन्त्य मनसा प्रोवाच यदुपुङ्गवः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 10

अलमेतेन सर्वत्र पिशाच पिशिताशन ।

अस्पृश्य मादृशैरेतद् ब्राह्मण्यं शवमुत्तमम् ॥ ३.८३.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 11

ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।

पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 12

न हन्तव्याः सदा विप्रास्तद्धिंसा नरकावहा ।

तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 13

भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलमेतया ।

मनःशुद्ध्यै कृतो यत्नस्ततः प्रीतोऽस्मि मांसप ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 14

अस्मत्सङ्कीर्तनाच्छश्वच्छुद्धं हि करणं तव ।

अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 15

पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।

करेण मृदुना देवः पापान्निर्मोचयद्धरिः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 16

ततस्तस्याभवद् रूपं कामरूपसमप्रभम् ।

दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 17

समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।

पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 18

केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।

ज्ञानवान्सत्त्वसम्पन्नः साक्षादिन्द्र इवापरः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 19

गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।

साक्षात्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 20

न नूनं तादृशं रूपमासीत् कालान्तरेष्वपि ।

अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ॥ ३.८३.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 21

कृत्वा सुबहुशो घोरं तपः परमदारुणम् ।

यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 22

को नु नाम जगन्नाथमाश्रितः सीदते नृप ।

स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 23

ध्यायन् पठञ्जपन्वापि तस्य किं नास्ति भूपते ।

ततः प्रोवाच भगवान् स्थितं काममिवापरम् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 24

अक्षयः स्वर्गवासस्ते यावदिन्द्रो वसिष्यति ।

तावत् स्वर्गी भवानस्तु शासनान्मम नान्यतः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 25

नष्टे शक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।

योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 26

वरं वरय भद्रं ते यस्ते मनसि वर्तते ।

दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 27

घण्टाकर्ण उवाच ।

यश्चेमं सङ्गमं देव संस्मरेन्नियतात्मवान् ।

भक्तिस्तस्याचला देव त्वयि भूयाज्जनार्दन ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 28

मनःशुद्धिर्भवेत्तस्य मा भूत् कलुषता हरे ।

कालुष्यं मनसस्तस्य मा भूदेष वरो मम ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 29

एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।

इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 83: घण्टाकर्णमुक्तिप्रदाने, Verse 30

इत्युक्त्वा भगवान् कृष्ण उत्थाप्य ब्राह्मणं तदा ।

तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ॥ ३.८३.३०॥