Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 1

घण्टाकर्णकृतो विष्णुस्तवः GhaNTAkarNa's Hymn to viShNu घण्टाकर्णेन भगवतः विष्णोः स्तुतिः वैशम्पायन उवाच ।

पिशिताशो जगन्नाथं ददर्शाथ जगद्गुरुम् ।

समाधौ च यथा दृष्टं भूमौ चापि तथा हरिम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 2

अयं विष्णुरयं विष्णुरित्यूचे पिशिताशनः ।

समाधौ च यथा दृष्टः सोऽयमत्रापि दृश्यते ।

इत्युक्त्वा च पुनर्ब्रूते नृत्यन्निव हसन्निव ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 3

अयं स चक्री शरशार्ङ्गधन्वा गदी रथी सध्वजतूणपाणिः ।

सहस्रमूर्धा सकलामरेशो जगत्प्रसूतिर्जगतां निवासः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 4

विष्णुर्जिष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः ।

विश्वात्मा विश्वकर्ता यः सोऽयमेष सनातनः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 5

अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः ।

यस्य प्रसादाज्जगदेतदादौ विराजते चन्द्रमसेव रात्रिः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 6

योऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसञ्चयात् ।

योऽयमेव हरिः साक्षाद् वाराहं वपुरास्थितः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 7

बद्ध्वा तथा दानवमुग्रपौरुषं ददौ च शक्राय ततोऽनुराज्यम् ।

बलिं बलादेव हरिः स वामनः स्तुतश्च भक्त्या मुनिभिः पुरातनैः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 8

दंष्ट्राकरालः सुमहान् हत्वा यो दानवान् रणे ।

निःशोकमखिलं लोकं चकारासौ जनार्दनः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 9

आदौ दधारैकभुजेन मन्दरं निर्जित्य सर्वानसुरान् महार्णवे ।

ददौ च शक्राय सुधामयं महान् स एष साक्षादिह मामवस्थितः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 10

यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।

हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ ॥ ३.८२.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 11

यमाहुराद्य विबुधा जगत्पतिं सर्वस्य धातारमजं जनित्रम् ।

अणोरणीयांसमतिप्रमाणं स्थूलात्स्थविष्ठं हरिमेव विष्णुम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 12

यत्र स्थितमिदं सर्वं प्राप्ते लोकस्य नाशने ।

आदौ यस्मात्समुत्पन्नं सोऽयं विष्णुरिति स्थितः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 13

यस्येच्छया सर्वमिदं प्रवृत्तं प्रवर्तते चापि जनार्दनस्य ।

अयं स विष्णुः पुरुषोत्तमः शिवः प्रवर्तते मामिह यादवेश्वरः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 14

भृगोर्वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।

शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 15

जघान वीर्याद् बलिनं महारणे कुठारशस्त्रेण गिरीशशिष्यः ।

सहस्रबाहुं कृतवीर्यसम्भवं हयैर्गजैश्चैव रथैश्च निर्गतम् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 16

कुरुक्षेत्रं समासाद्य यश्चकार पितृक्रियाम् ।

निःक्षत्रियमिमं लोकं कृतवानेकविंशतिः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 17

रघोरथ कुले जातो रामो नाम जनार्दनः ।

सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 18

कृत्वा च सेतुं जलधौ जनार्दनो हत्वा च रक्षःपतिमाशुगैः शरैः ।

दत्त्वा च राज्यं स विभीषणाय दशाश्वमेधैरयजच्च योऽसौ ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 19

वसुदेवकुले जातो वासुदेवेति शब्दितः ।

गोकुले क्रीडते योऽसौ सङ्कर्षणसहायवान् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 20

उत्तानशायी शिशुरूपधारी पीत्वा स्तनं पूतनिकाप्रदत्तम् ।

व्यसुं चकाराशु जनार्दनस्तदा दनोः सुतां तामवसत् सुखं हरिः ॥ ३.८२.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 21

पयःपानं तथा कुर्वन् भक्षयन् दधिपिण्डकम् ।

दाम्ना बद्धोदरो विष्णुर्मात्रा रुषितया दृढम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 22

ततश्च दाम्ना सुदृढेन बद्धो जघान योऽसौ यमलार्जुनौ च ।

क्रीडन् हरिर्गोकुलवासवासी गोपीभिरास्वाद्य मुखं स्तनं च ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 23

वृन्दावने वसन् विष्णुर्गोपैर्गोकुलवासिभिः ।

तत्र हत्वा हयं राजन् विरराजांशुमानिव ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 24

यः क्रीडते नागफणौ जनार्दनो निषेव्यमाणः सह गोपदारकैः ।

महाह्रदे नागपतिं जगत्पतिर्ममर्द वीर्यातिशयं प्रदर्शयन् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 25

यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।

हत्वा दानवमुग्रं तं गोपान् विस्मापयत्यसौ ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 26

दधार यो गोधरमुग्रपौरुषान् महामतिर्मेघसमागमे सति ।

विडम्बयञ्छक्रबलं प्रमोदयन् गोपांश्च गोपीश्च स गोकुलं हरिः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 27

गोपीनां स्तनमध्ये तु क्रीडते काममीश्वरः ।

योऽसौ पिबंस्तदधरं मायामानुषदेहवान् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 28

गोपीभिरास्वाद्य मुखं विविक्ते शेते स्म रात्रौ सुखमेव केशवः ।

स्तनान्तरेष्वेव तदा च तासां कामीव कान्ताधरपल्लवं पिबन् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 29

अक्रूरेण समाहूतस्तेन गच्छन् हि यामुने ।

जले यो ह्यर्चितस्तेन नागलोके स एव हि ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 82: कैलासयात्रायां, Verse 30

ततश्च गच्छन्बलवाज्जनार्दनो हत्वा तमुग्रं रजकं बलात्पथि ।

हृत्वा च वस्त्राणि यथेष्टमीश्वरो ययौ सरामो मथुरां पुरीं हरिः ॥ ३.८२.३०॥