Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 1

घण्टाकर्णकृता विष्णुस्तवप्रार्थना तस्य समाधिलाभश्च GhaNTAkarNa and kRiShNa meet, ghaNTAkarNa enters meditation घण्टाकर्णेन भगवतः श्रीकृष्णेन च अन्योन्यं परिचयदानं, घण्टाकर्णेन भगवतः विष्णोः स्तवनं समाधिलाभं च ।

वैशम्पायन उवाच ।

ततः स भगवान् विष्णुः पिशाचौ मांसभक्षकौ ।

ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 2

विलोकयाञ्चक्रतुस्तौ पिशाचौ देवकीसुतम् ।

स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरेश्वरम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 3

तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।

ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 4

कौ भवान् कस्य वा मर्त्य कुतश्चागम्यते त्वया ।

किमर्थमिह सम्प्राप्तो वने घोरे मृगाकुले ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 5

निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।

श्वापदैः सेव्यमाने च विपिने व्याघ्रसङ्कुले ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 6

सुकुमारोऽनवद्याङ्गः साक्षाद् विष्णुरिवापरः ।

पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 7

अस्मत्प्रीतिकरः साक्षात् प्राप्तो विष्णुरिवापरः ।

देवो वा यदि वा यक्षो गन्धर्वः किन्नरोऽपि वा ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 8

इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा ।

एकाकी विपिने घोरे ध्यानार्पितमना इव ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 9

ब्रूहि मर्त्य यथातत्त्वं ज्ञातुमिच्छामि मानद ।

एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 10

क्षत्रियोऽस्मीति मामाहुर्मानुष्याः प्रकृतिस्थिताः ।

यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठितः ॥ ३.८०.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 11

लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा ।

कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 12

इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति ।

युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 13

एषा हि महती पुण्या नानाविप्रनिषेविता ।

बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 14

तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता ।

श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 15

न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते ।

न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 16

अहमस्य तु देशस्य रक्षिता नात्र संशयः ।

व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 17

कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।

नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 18

विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।

इहैव स्थीयतां तावद् वक्तव्यं च ततः सुखम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 19

अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च ।

वैशम्पायन उवाच ।

एवं पृष्टौ पिशाचौ तु वक्तुमेवोपचक्रतुः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 20

तयोरेको महाघोरः पिशाचो दीर्घबाहुकः ।

उवाच वचनं तत्र यथा हृदि समर्पितम् ॥ ३.८०.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 21

पिशाच उवाच ।

श्रूयतामभिधास्यामि समातितमना भव ।

नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 22

आदिदेवमजं विष्णुं वरेण्यमनघं शुचिम् ।

वक्ष्यामि सकलं यद्वत्तथा श‍ृणु यदीच्छसि ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 23

घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।

मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 24

धनदस्यानुगन्ताहं साक्षाद् रुद्रसखस्य च ।

ममायमनुजः साक्षादन्तकस्यान्तको ह्ययम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 25

मृगयेयं सुमहती विष्णोः पूजार्थमित्युत ।

ममेयं वर्तते सेना श्वगणोऽपि ममैव तु ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 26

आगतोऽहं महाशैलात् कैलासाद् भूतसेवितात् ।

अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 27

सततं दूषयन् विष्णुं घण्टामाबध्य कर्णयोः ।

मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 28

अहं कैलासनिलयमासाद्य वृषभध्वजम् ।

आराध्य तं महादेवमस्तुवं सततं शिवम् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 29

ततः प्रसन्नो मामाह वृणीष्वेति वरं हरः ।

ततो मुक्तिर्मया तत्र प्रार्थिता देवसन्निधौ ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 80: अशीतितमोऽध्यायः, Verse 30

मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः ।

मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः ॥ ३.८०.३०॥