Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 1

पिशाचागमनम् The arrival of the pishAcha-s भगवतः श्रीकृष्णस्य पार्श्वे पिशाचद्वयानां आगमनं वैशम्पायन उवाच ।

तेषामनु महाघोरौ पिशाचौ विकृताननौ ।

प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 2

लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।

खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 3

अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।

लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 4

कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।

हसन्तौ विविधं हासं स्वजातिसदृशं नृप ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 5

वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।

कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 6

सृक्किणीं लेलिहन्तौ च दन्तान्कटकटायिनौ ।

अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसन्ततौ ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 7

वदन्तौ कृष्ण कृष्णेति माधवेति च सन्ततम् ।

कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 8

स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।

अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 9

कुतः पद्मपलाशाक्षः साक्षादिन्द्रानुजो हरिः ।

यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 10

तमजं पुरुषं विष्णुं द्रष्टुमभ्युद्यता वयम् ।

अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ॥ ३.७९.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 11

तमजं विश्वकर्तारं कुतो द्रक्ष्याम साम्प्रतम् ।

यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 12

तं द्रष्टुं देवमीशानं यतामः साम्प्रतं हरिम् ।

दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 13

पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् ।

नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 14

अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसञ्चये ।

अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 15

यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।

दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 16

सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसञ्चयैः ।

तथा हि तत्फलं घोरमद्यापि न निवर्तते ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 17

यताः स्म प्राणिनो हन्तुं श्वगणैः सह साम्प्रतम् ।

तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 18

अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।

तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 19

यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।

विषयाविष्टचित्ता हि मनुष्या न विजानते ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 20

तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।

ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ॥ ३.७९.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 21

यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।

ततो मृता गर्भवासे वसन्ति सततं नराः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 22

विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।

च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 23

परस्परं विहिंसन्तः कुर्वन्तः कर्मसञ्चयम् ।

महत्येवं सदा घोरे संसारे दुःखसङ्कुले ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 24

पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।

संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 25

अच्छेद्यः शस्त्रसम्पातैरुपायैर्बहुभिः सदा ।

एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 26

इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।

चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 27

निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।

इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 28

अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।

भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ।

आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 29

ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।

इत्थं पिशाचौ भाषन्तौ प्रादुरास्तां हरेः पुरः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 79: एकोनाशीतितमोऽध्यायः, Verse 79

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायामेकोनाशीतितमोऽध्यायः ॥ ७९॥