भविष्यपर्व, अध्याय 77: कैलासयात्रायां, Verse 1
श्रीकृष्णस्य बदरिकाश्रमे आतिथ्यस्वीकारः KRiShNa welcomed at badarika Ashram देवेभिः सहितस्य श्रीकृष्णस्य बदरिकाश्रमे ऋषिभिः आतिथ्यसत्कारं वैशम्पायन उवाच ।
ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् ।
समाप्य चाग्निहोत्राणि सम्पूज्यातिथिसत्तमान् ॥ १॥