भविष्यपर्व, अध्याय 76: कैलासयात्रायां, Verse 1
श्रीकृष्णस्य बदरिकाश्रमगमनम् KRiShNa goes to badarika Ashram गरुडोपरि आरूढो भूत्वा श्रीकृष्णस्य बदरिकाश्रमे गमनं, मार्गे देवेभिः मुनिभिश्च तस्य स्तुतिः वैशम्पायन उवाच ।
ततः सञ्चिन्तयामास गरुडं पक्षिपुङ्गवम् ।
आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः ॥ १॥