Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 1

द्वारवतीरक्षने यादवान् प्रति श्रीकृष्णस्य वचनम् KRiShNa addresses the yAdava to protect dvAravati भगवतः श्रीकृष्णस्य सात्यकिना उद्धवेन सार्धं च नगरस्य रक्षाविषयकं वार्तालापं, बलरामादिभ्यः यादवेभ्यः रक्षणस्य भारं समर्पयित्वा कैलासयात्रायां प्रति उद्योगं श्रीभगवानुवाच ।

सात्यके श‍ृणु मद्वाक्यं यत्तो भव युधां वर ।

त्वं तु खड्गी गदी भूत्वा चापपाणिस्तनुत्रवान् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 2

तिष्ठ यत्नेन रक्षस्व पुरीं बहुनृपाश्रयाम् ।

न च निद्रा त्वया कार्या रात्रौ यदुवृष प्रभो ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 3

न च व्याख्या त्वया कार्या शास्त्राणां शास्त्रतत्पर ।

न च वादस्त्वया कार्यो वादिभिः सह वृष्णिप ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 4

त्वं हि योद्धा बली ज्ञाता धनुर्वेदाख्यवेदवित् ।

तथा कुरु यथा वीर नोपहास्या भवेदियम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 5

सात्यकिरुवाच ।

करिष्यामि वचस्तुभ्यं यथाशक्ति जनार्दन ।

आज्ञा तव जगन्नाथ धार्या यत्नेन मे सदा ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 6

भृत्यवत् प्रचरिष्यामि कामपालस्य माधव ।

यावदागमनं तुभ्यं तावत्स्थास्यामि यत्नतः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 7

प्रसादस्तव गोविन्द यदि स्यान्मयि माधव ।

किं नाम मे च दुःसाध्यं शत्रूणां निग्रहे रणे ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 8

यदि शक्रं यमं वापि कुबेरमपि पाशिनम् ।

सर्वानेतान्विजेष्यामि किमु पौण्ड्रं नृपोत्तमम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 9

गच्छ कार्य कुरुष्वेदं यत्तोऽहं सततं हरे ।

उद्धवं पुनराहेदं कृष्णः पद्मनिभेक्षणः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 10

श‍ृणूद्धव त्वं वाक्यं मे कुर्यास्त्वेतत्प्रयत्नवान् ।

रक्ष्या नयेन राजेन्द्र पुरी द्वारवती त्वया ॥ ३.७५.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 11

यत्तो भव सदा तात कुरु साहय्यमत्र नः ।

लज्जा मम समुत्पन्ना वदतस्तव साम्प्रतम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 12

त्वं हि नेता समस्तस्य विद्यापारस्य सर्वतः ।

को नु शक्ष्यति मेधावी वक्तुं विद्यावतः पुरः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 13

यत् कार्यं तद्भवान् वेत्ति ह्यकार्यं वापि सर्वतः ।

अतोऽहं विरमे तात वक्तुं सम्प्रति वृष्णिप ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 14

उद्धव उवाच ।

किमिदं तव गोविन्द वर्तते मां प्रति प्रभो ।

अहो प्रसन्नता मह्यं किन्तु प्रीतिरियं तव ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 15

जानाम्यहं जगन्नाथ प्रसादस्यैष विस्तरः ।

यस्य प्रसन्नो भवति तस्य किं नास्ति केशव ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 16

त्वं हि सर्वस्य जगतः कर्ता हर्ता प्रधानतः ।

प्रभवः सर्वकार्याणां वक्ता श्रोता प्रमाणवित् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 17

ध्याता ध्यानमयो ध्येय इति ब्रह्मविदो विदुः ।

जेता देवरिपूणां च गोप्ता नाकसदां भवान् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 18

त्वन्नाथा वयमेवेति जीवामो निहतद्विषः ।

इयं नीतिरहं मन्ये नेता नीतेर्यतो भवान् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 19

को नु नाम नयो वेद त्वां विना साम्प्रतं वद ।

नीतिस्त्वं सर्वकार्याणामिति मे निश्चिता मतिः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 20

दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदो जनाः ।

चतुर्धा प्रोच्यते नीतिः सामदाने जनार्दन ॥ ३.७५.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 21

दण्डो भेदो मनुष्याणां निग्राहावग्रहे सदा ।

दण्ड्येषु दण्डमिच्छन्ति समान्यं तु नये हरे ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 22

बलवत्स्वथ दानं तु त्रयाणामप्यगोचरे ।

प्रयोक्तव्यो महाभेद इति नीतिमतां मतम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 23

तेषु तेष्वथ सर्वेषु प्रमाणं त्वां विदुर्बुधाः ।

किमत्र बहुनोक्तेन सर्वं त्वयि समर्पितम् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 24

वैशम्पायन उवाच ।

इत्युक्त्वा विररामैव उद्धवो नीतिमत्तरः ।

ततः स भगवान् विष्णुरेवमेव नृपोत्तम ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 25

कामपालं महाबाहुमुवाच यदुसंसदि ।

उग्रसेनं नृपं राजंस्तथा हार्दिक्यमेव च ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 26

कामपालं पुनर्विष्णुरिदं प्रोवाच तत्त्ववित् ।

न प्रमादस्त्वया कार्यः सर्वदा यत्नवान् भव ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 27

स्थिते त्वयि महाबाहो का पीडा जगतो भवेत् ।

गदी भव सदा त्वार्य न क्रीडा सर्वदा भवेत् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 28

रक्ष त्वं सर्वदा यत्नात् पुरीं द्वारवतीं प्रभो ।

नोपहास्या यथा स्याम तथा कुरु गदी भव ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 29

उत्साहः सर्वदा कार्यो निरुत्साहो न यत्नतः ।

बाढमित्यब्रवीद् रामः कृष्णं वृष्णिकुलोद्भवम् ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 75: कैलासयात्रायां, Verse 30

वृष्णयः सर्व एवैते स्वं स्वं सद्म समाययुः ।

गन्तुमैच्छज्जगन्नाथः कैलासं पर्वतोत्तमम् ॥ ३.७५.३०॥