Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 1

श्रीकृष्णस्य कैलासगमनविचारः KRiShNa ponders on trip to kailAsa भगवतः श्रीकृष्णेन यादवसभायां कैलासयात्रायाः स्वविचारं प्रकटयित्वा नगरस्य रक्षार्थं यादवेभ्यः सावधानं भवितुं आदेशं वैशम्पायन उवाच ।

प्रभातायां तु शर्वर्यां गन्तुमैच्छज्जनार्दनः ।

हुताग्निः कृतकल्याणः समाप्तवरदक्षिणः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 2

गाश्च दत्त्वाथ विप्रेभ्यो नमस्कृत्य द्विजोत्तमान् ।

आस्थानमण्डपं कृष्णः प्रविवेश जगत्पतिः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 3

आसनं महदास्थाय वृष्णीनाहूय सर्वशः ।

बलभद्रं शिनेः पौत्रं हार्दिक्यं शुकसारणौ ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 4

उग्रसेनं महाबुद्धिमुद्धवं नीतिमत्तरम् ।

यस्य बुद्धिं समाश्रित्य जीवन्ते यादवाः सुखम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 5

नेता च यदुवृष्णीनां स तु धर्मपरः सदा ।

यस्य बिभ्यति देवाश्च नीतेस्तस्य महात्मनः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 6

यस्य बुद्धिबलाद् विष्णुः शशास पृथिवीं सदा ।

तं च वृष्णिवरं वीरमुद्धवं देवसुप्रभम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 7

अन्यानपि यदून् सर्वानुवाच भगवान् हरिः ।

श‍ृण्वन्तु मम वाक्यानि यादवाः सर्व एव हि ।

श‍ृणु चापि वचो मह्यं पितुरुद्धव मे सखे ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 8

बाल्यात्प्रभृति यो यत्नो मम दुष्टनिबर्हणे ।

प्रत्यक्षं भवता दृष्टं पूतनानिधनं नृप ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 9

केशी च निहतो बाल्ये मया बालेन यादवाः ।

गोवर्धनो धृतः शैलो गावश्च परिपालिताः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 10

अभिषिक्तोऽस्मि शक्रेण देवानामग्रतः स्थितः ।

कंसोऽपि निधनं नीतो मया चाणूरमुष्टिकौ ॥ ३.७४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 11

उग्रसेनोऽभिषिक्तश्च कृता द्वारवती मया ।

अन्ये चापि नृपा राजन् बलिनो निहता मया ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 12

योऽपि वीरो जरासन्धो निगृहीतो बलान्मया ।

भीमेन बलिना राजन्नयने मम यादवाः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 13

श‍ृगालो निहतः सङ्ख्ये गोमन्ताद् गच्छता मया ।

योऽपि वीरो दुरात्मासौ दानवो नरको हतः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 14

निष्कण्टकमिमं लोकं कृतवान् राजसत्तमाः ।

किं तु वीरो नृपो जज्ञे सखा भौमस्य यादवाः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 15

पौण्ड्रो वीर्यवतां नेता द्वेष्टा चासौ सदा मम ।

शिष्यो द्रोणस्य राजेन्द्रो बली ब्रह्मास्त्रवित्कृती ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 16

शास्त्रज्ञो नीतिमान्साक्षान्नेता सर्वस्य यत्नवान् ।

योद्धा युद्धप्रियो राजा जामदग्न्य इवापरः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 17

एकान्तशत्रुरस्माकं छिद्रान्वेषी सदा मम ।

बाधिष्यते पुरीं योद्धाच्छिद्रं यदि लभेत सः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 18

न ह्यल्पसाध्यो बलवान् पुण्ड्रस्येशो नृपोत्तमाः ।

यत्ता भवन्तस्तिष्ठन्तु प्रगृहीतशरासनाः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 19

यथा न बाधते राजा पुरीं यदुकुलाश्रयाम् ।

अहं तु यास्ये कैलासं कुतश्चित्कारणान्नृपाः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 20

शङ्करं द्रष्टुकामोऽस्मि भूतभावनभावनम् ।

यावदागमनं मह्यं तावद् यत्ता भवन्त्विह ॥ ३.७४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 21

मया विरहितां चेमां यदि जानाति पुण्ड्रकः ।

आगमिष्यति राजेन्द्रो योत्स्यते च पुरीमिमाम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 22

इमां निर्यादवीं कर्तुं शक्नोतीति च मे मतिः ।

यत्ता भवत राजेन्द्राः खड्गैः पाशैः परश्वधैः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 23

पाषाणैः कर्षणीयैश्च सन्नद्धा भवत स्वकैः ।

पिधाय च कपाटानि महाद्वाराणि यत्नतः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 24

एक एव महाद्वारो गमनागमने सदा ।

मुद्रया सह गच्छन्तु राज्ञो ये गन्तुमीप्सवः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 25

न चामुद्रः प्रवेष्टव्यो द्वारपालस्य पश्यतः ।

यावदागमनं मह्यं तावदेवं भविष्यति ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 26

मृगया नात्र कर्तव्या न च क्रीडा बहिः पुरात् ।

ज्ञातव्याश्च परे स्वे च गमनागमने सदा ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 74: कैलासयात्रायां, Verse 27

एवमादिक्रिया कार्या यावदागमनं मम ।

इत्युक्त्वा यादवान्सर्वान्सात्यकिं पुनराह च ॥ २७॥