Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 1

श्रीकृष्णं प्रति रुक्मिण्याः पुत्रप्रार्थनाकथनम् RukmiNi asks kRiShNa for a son रुक्मिण्या देव्या भगवन्तं श्रीकृष्णं पुत्राय प्रार्थना, भगवता तां आश्वासयित्वा कैलासगमनस्य विचारस्य प्रकटनं जनमेजय उवाच ।

किमर्थं भगवान् विष्णुर्देवदेवो जनार्दनः ।

गतः कैलासशिखरमालयं शङ्करस्य च ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 2

नारदाद्यैस्तपोवृद्धैर्मुनिभिस्तत्त्वदर्शिभिः ।

तत्र दृष्टो महादेवः शङ्करो नीललोहितः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 3

केशवेन पुरा विप्र कुर्वता तप उत्तमम् ।

अर्चितो देवदेवेन शङ्करश्चेति नः श्रुतम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 4

देवौ तत्र जगन्नाथौ दृष्टवन्तौ पुरातनौ ।

अर्चयाञ्चक्रिरे देवा इन्द्राद्याः शङ्करं हरिम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 5

तौ हि देवौ महादेवावेकीभूतौ द्विधा कृतौ ।

एकात्मानौ जगद्योनी सृष्टिसंहारकारकौ ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 6

परस्परसमावेशाज्जगतः पालने स्थितौ ।

तयोस्तत्र यथावृत्तं कैलासे पर्वतोत्तमे ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 7

ऋषयः किमचेष्टन्त दृष्ट्वा तौ पुरुषोत्तमौ ।

एतत् सर्वमशेषेण वक्तुमर्हसि सत्तम ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 8

यथा गतो हरिर्विष्णुः कृष्णो जिष्णुः पुरातनः ।

यथा च शङ्करः साक्षात्कृतवान्नागभूषणः ।

एतत् सर्वं विप्रवर्य ब्रूहि तत्त्वेन यत्नतः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 9

वैशम्पायन उवाच ।

श‍ृणुष्वावहितो राजन् यथा कृष्णो गतो नगम् ।

यथा च दृष्टो देवेशः शङ्करो वृषवाहनः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 10

यथा चचार स तपो यथा ते मुनयो गताः ।

एवं तयोर्यथावृत्तं तथा श‍ृणु नरोत्तम ॥ ३.७३.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 11

द्वैपायनोऽथ भगवान् यथा प्रोवाच मां तथा ।

नमस्कृत्य प्रवक्ष्यामि केशवं खगवाहनम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 12

यथाशक्ति यथाप्रज्ञं श‍ृणु यत्नेन सुव्रत ।

न चाशुश्रूषवे वाच्यं नृशंसायातपस्विने ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 13

नानधीताय वक्तव्यं पुण्यं पुण्यवता सदा ।

स्वर्ग्यं यशस्यं धन्यं च बुद्धिशुद्धिकरं सदा ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 14

ध्येयं पुण्यात्मनां नित्यमिदं वेदार्थनिश्चितम् ।

अनेकारण्यसंयुक्तं सेवन्ते नित्यमीदृशम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 15

मुनयो वेदनिरता नारदाद्यास्तपोधनाः ।

अत्यद्भुतं महापुण्यं वृत्तं कैलासपर्वते ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 16

शिवयोर्देवयोस्तत्र हरेश्चैव भवस्य ह ।

हतेष्वसुरसङ्घेषु नरकादिषु भूमिप ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 17

हतेष्वथ नृपेष्वेवं किञ्चिच्छिष्टेषु शत्रुषु ।

शासति स्म सदा विष्णुः पृथिवीं पुरुषोत्तमः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 18

द्वारवत्यां जगन्नाथो वसन् वृष्णिभिरीश्वरः ।

रुक्मिण्या सङ्गतो देवो वसंस्तत्र पुरे हरिः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 19

कदाचिच्च तया सार्धं शेते रात्रौ जगत्पतिः ।

विहरंश्च यथायोगं प्रीतः प्रीतियुजा तया ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 20

अथोवाच तदा देवी रुक्मिणी रुक्मभूषणा ।

पुत्रमिच्छामि देवेश त्वत्तो माधव नन्दनम् ॥ ३.७३.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 21

बलिनं रूपसम्पन्नं त्वयैव सदृशं प्रभो ।

वृष्णीनामपि नेतारं वीर्यवन्तं तपोनिधिम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 22

सर्वशास्त्रार्थकुशलं राजविद्यापुरस्कृतम् ।

एवमादिगुणैर्युक्तं दातुमर्हसि सत्तम ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 23

त्वयि सर्वस्य दातृत्वं नित्यमेव प्रतिष्ठितम् ।

त्वं हि सर्वस्य कर्ता च दाता भोक्ता जगत्पतिः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 24

विशेषतस्तु भृत्यानां शुश्रूषानियतात्मनाम् ।

वक्तव्यं किमु देवेश यदि भक्तास्मि केशव ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 25

अनुग्रहो यदि स्यान्मे देवदेव जगत्पते ।

दातुमर्हसि पुत्रं त्वं वीर्यवन्तं जनार्दन ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 26

वैशम्पायन उवाच ।

इत्युक्तो देवदेवेशः प्रियया प्रीयमाणया ।

तया महिष्या रुक्मिण्या रुक्मिशत्रुर्यदूद्वहः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 27

प्रोवाच वचनं काले रुक्मिणीं यादवेश्वरः ।

दातास्मि तादृशं पुत्रं यं त्वमिच्छसि भामिनि ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 28

नित्यं भक्तासि मे देवि नात्र कार्या विचारणा ।

अवश्यं तव दास्यामि पुत्रं शत्रुनिबर्हणम् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 29

पुत्रेण लोकाञ्जयति सतां कामदुघा हि ये ।

नरकं पुदिति ख्यातं दुःखं च नरकं विदुः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 73: कैलासयात्रायां, Verse 30

पुदस्त्राणात् ततः पुत्रमिहेच्छति परत्र च ।

अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः ॥ ३.७३.३०॥