Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे

Containing 109 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 1

विष्णोरादेशात् बलेः पातालप्रवेशः, तत्कृत विष्णुस्तवः, बलिं प्रति गरुडस्य उक्तिप्रयुक्ति, वामनस्तवफलकथनं च Following viShNu's instruction, bali enters pAtAla, hymn to viShNu by bali (mokSaviMshaka) etc. विराड्रूपधारिणः वामनोपरि आक्रमणकारिणां दैत्यानां नामानि, रूपाणां आयुधानां च परिचयं, भगवता त्रयाणां लोकानां मापयित्वा राज्यस्य विभाजनं, बलिं पातालस्य राज्यं दत्त्वा मर्यादां बन्धयित्वा तेषां तत्र प्रेषणम्, जीविकायाः व्यवस्थाकरणं, नारदेन बलिं मोक्षविंशकसंज्ञकस्य स्तोत्रस्य उपदेशकरणं, तस्य प्रभावेण बलेः बन्धनमुक्तिः, स्तोत्रस्य महिमा वैशम्पायन उवाच ।

श‍ृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।

आयुधानि च मुख्यानि दानवानां महात्मनाम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 2

विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।

अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 3

वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः ।

पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 4

प्रहादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।

अनुह्रादो हरिहरौ वाराहः संहरो रुजः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 5

वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।

निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 6

एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः ।

शरभः शलभश्चैव कुणपः कुलपः क्रथः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 7

बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।

दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 8

वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 9

कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।

गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 10

चन्द्रतापनवातापी केतुमान् बलदर्पितः ।

असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥ ३.७२.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 11

श‍ृगालवदनश्चैव करालः केशिरेव च ।

एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 12

एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।

उपतस्थुर्महात्मानं विष्णुं दैत्यगणास्तदा ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 13

प्रासोद्यतकराः केचिद् व्यादितास्याः खरस्वनाः ।

शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 14

खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।

प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 15

महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।

महावृक्षोद्यतकरास्तथैव च धनुर्धराः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 16

गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।

महापट्टिशहस्ताश्च तथा परिघपाणयः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 17

असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।

नानाप्रहरणा घोरा नानावेषा महाबलाः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 18

कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।

खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 19

भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।

मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 20

गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।

अश्ववक्त्रा वभ्रुवक्त्रा घोरा मृगमुखास्तथा ॥ ३.७२.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 21

उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।

नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 22

चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।

तथा मृगाननाः शूरा गोऽजादिमहिषाननाः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 23

कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।

ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 24

गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।

चीरसंवृतगात्राश्च तथा फलकवाससः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 25

उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 26

नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।

स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 27

क्रममाणं हृषीकेशमुपातिष्ठन्त दानवाः ।

प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 28

रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।

त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसम्भवा ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 29

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।

नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 72: वामनप्रादुर्भावे, Verse 30

परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ।

विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ ३.७२.३०॥