Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 1

वामनप्रादुर्भावः PrAdurbhAva of vAmana ऋषिभिः देवेभिश्च वामनाय नमस्कारं, गन्धर्वाप्सरेभ्यो नृत्यं गानं च, भगवतः वैशिष्ट्यस्य वर्णनं, भगवतः देवेभ्यः तेषां मनोरथं पृष्ट्वा बृहस्पतिना सह बलेः यागं गमनं, तत्र स्ववाक्पटुतया सर्वान् चकितं करणं, राज्ञा बलिना तस्य परिचयं आगमनस्य प्रयोजनस्य च पृच्छा ।

वैशम्पायन उवाच ।

प्रजानां पतयः सप्त सप्त चैव महर्षयः ।

तस्य देवस्य जातस्य नमस्कारं प्रचक्रिरे ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 2

भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।

यश्चोदितो भास्करे सम्प्रणष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 3

मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।

दक्षप्रजापतिश्चैव नमस्कारं प्रचक्रिरे ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 4

और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।

कपीवानकपीवांश्च दत्तो निश्च्यवनस्तथा ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 5

वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।

हिरण्यगर्भस्य सुताः पूर्वजाताः सुतेजसः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 6

गार्ग्यः पृथुस्तथैवान्यो जन्यो वामन एव च ।

देवबाहुर्यदुध्रश्च पर्जन्यश्चैव सोमजः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 7

हिरण्यरोमा वेदशिराः सप्तनेत्रस्तथैव च ।

विश्वोऽतिविश्वश्च्यवनः सुधामा विरजास्तथा ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 8

अतिनामा सहिष्णुश्च नमस्कारमकुर्वत ।

उद्दयोतमाना वपुषा सर्वाभरणभूषिताः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 9

उपनृत्यन्ति देवेशं विष्णुमप्सरसां वराः ।

ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 10

बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः ।

महाश्रुतिश्चित्रशिरा ऊर्णायुरनघस्तथा ॥ ३.७०.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 11

गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च सप्तमः ।

युगपस्तृणपः कार्ष्णिर्नन्दिश्च त्रिशिरास्तथा ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 12

त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ।

कलिः पञ्चदशश्चात्र तत्रैव तु महीपते ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 13

दश पञ्च त्विमे प्रोक्ता नारदश्चैव षोडशः ।

हाहा हूहूश्च गन्धर्वौ हंसश्चैव महाद्युतिः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 14

सर्वे ते देवगन्धर्वा उपगायन्ति केशवम् ।

तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 15

वपुष्मन्तः सुजघनाः सर्वाङ्गशुभदर्शनाः ।

ननृतुश्च महाभागा जगुश्चायतलोचनाः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 16

सुमध्याश्चारुमध्याश्च प्रियमुख्यो वराननाः ।

अनूकाथ तथा जामी मिश्रकेशी त्वलम्बुषा ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 17

मरीचिः शुचिका चैव विद्युत्पूर्णा तिलोत्तमा ।

अद्रिका लक्षणा चैव रम्भा तद्वन्मनोरमा ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 18

असिता च सुबाहुश्च सुप्रिया सुभगा तथा ।

उर्वशी चित्रलेखा च सुग्रीवा च सुलोचना ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 19

पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ।

नन्दा शारद्वती चैव तथान्यास्तत्र सङ्घशः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 20

मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।

एताश्चाप्सरसोऽन्याश्च प्रनृत्यन्ति सहस्रशः ॥ ३.७०.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 21

धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।

इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 22

कथितो विष्णुरित्येवं काश्यपेयो गणस्तथा ।

इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 23

चक्रुस्तस्य सुरेशस्य नमस्कारं महात्मनः ।

मृगव्याधश्च सर्पश्च निरृतिश्च महाबलः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 24

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।

दहनोऽथेश्वरश्चैव कपाली च विशाम्पते ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 25

स्थाणुर्भर्गश्च भगवान् रुद्रास्तत्रावतस्थिरे ।

प्रजानाथ! मृगव्याधः सर्प, महाबली निष्कृतिः अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 26

विश्वेदेवाश्च साध्याश्च तस्य प्राञ्जलयः स्थिताः ।

शेषानुजा महाभागा वासुकिप्रमुखास्तथा ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 27

कच्छपश्चापहर्ता च तक्षकश्च महाबलः ।

अधृष्टास्तेजसा युक्ता महाक्रोधा महाबलाः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 28

एते नागा महात्मानस्तस्मै प्राञ्जलयः स्थिताः ।

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 29

अरुणश्चारुणिश्चैव वैनतेया ह्युपस्थिताः ।

पितामहश्च भगवान् स्वयमागम्य लोककृत् ।

प्राह चैवं गुरुः श्रीमान् सह सर्वैर्महात्मभिः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 70: वामनप्राद्रुर्भावे, Verse 30

ब्रह्मोवाच ।

यस्मात् प्रसूयते लोकः प्रभविष्णुः सनातनः ।

तस्माल्लोकेश्वरः श्रीमान् विष्णुरेव भवत्वयम् ॥ ३.७०.३०॥