Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 1

कश्यपादीन्प्रति महाविष्णोर्वरप्रदानकथावतारः A pleased viShNu grants kashyapa's wish कश्यपाय अदितये देवेभ्यश्च भगवतः विष्णोः वरदानं, अदितेः गर्भात् प्राकट्यं वैशम्पायन उवाच ।

नारायणस्तु भगवाञ्छ्रुत्वैतत् परमं स्तवम् ।

ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 2

स्निग्धगम्भीरनिर्घोषजीमूतस्वननिःस्वनम् ।

मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 3

उवाच वचनं सम्यग् हृष्टपुष्टपदाक्षरम् ।

आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।

श्रीमान् प्रीतमना देवः प्रोवाच प्रभुरीश्वरः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 4

विष्णुरुवाच ।

प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।

वरं वृणुत भद्रं वो वरदोऽस्मि सुरोत्तमाः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 5

कश्यप उवाच ।

यदैव भगवान् प्रीतः सर्वेषाममरोत्तमः ।

तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 6

यदि प्रसन्नो भगवान् दातव्यो वा वरो यदि ।

वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।

अदित्यां वामनः श्रीमान् भगवानस्तु वै सुतः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 7

वैशम्पायन उवाच ।

अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।

पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 8

अदितिरुवाच ।

याचे त्वां पुत्रकामा वै भवान् पुत्रो भवत्विति ।

निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 9

देवा ऊचुः ।

भ्राता भर्ता च दाता च शरणं च भवस्व नः ।

अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।

देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 10

वैशम्पायन उवाच ।

ततस्तानब्रवीद् विष्णुर्देवान् कश्यपमेव च ।

एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ॥ ३.६९.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 11

सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।

मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 12

हत्वासुरगणान् सर्वान् ये चान्ये देवशत्रवः ।

करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 13

हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ।

करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 14

यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ।

देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।

यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 15

वैशम्पायन उवाच ।

एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।

देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 16

विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।

साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 17

नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।

प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 18

गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।

चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सवः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 19

अदितिर्देवमाता च गर्भे दध्रेऽतितेजसम् ।

भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 20

पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ।

सुराणां शरणं देवमसुराणां विनाशनम् ॥ ३.६९.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 21

गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।

आददानेन तेजांसि त्रैलोक्यस्य महात्मना ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 69: वामनप्रादुर्भावे, Verse 22

तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।

भयदे दैत्यसङ्घानां सुराणां नन्दिवर्धने ॥ २२॥