भविष्यपर्व, अध्याय 67: वामनप्रादुर्भाबे, Verse 1
कश्यपादीन्प्रति ब्रह्मवाक्यं, क्षीरोदस्योत्तरेतीरं कश्यपादेर्गमनं, तपश्चर्या च Kashyapa and others commence penance, on brahma's advice ब्रह्मणः आज्ञया कश्यपेन अदित्या सह देवानां क्षीरसागरस्य उत्तरे तीरे गत्वा तपःकरणे संलग्नता ।
ब्रह्मोवाच ।
यदर्थमिह सम्प्राप्ता भवन्तः सर्व एव हि ।
विजानाम्यहमव्यग्र एतत् सर्वं महाबलाः ॥ १॥