भविष्यपर्व, अध्याय 64: वामने, Verse 1
बलिवासवयोर्युद्धं, वासवस्य पराजयश्च Bali defeats indra बलेः इन्द्रेण सार्द्धं युद्धं, इन्द्रस्य रणभूमितः पलायनं वैशम्पायन उवाच ।
बलिना तु सुराः सर्वे वर्जयित्वा सुराधिपम् ।
रणे शरशतैर्भिन्नाः ससैन्या वै पराजिताः ॥ १॥