भविष्यपर्व, अध्याय 61: वामने, Verse 1
देवासुरयुद्धे वरुणविप्रचित्तियोर्युद्धम् Viprachitti takes on varuNa वरुणस्य विप्रचित्तेः सार्द्धं युद्धं पराजयं च वैशम्पायन उवाच ।
विप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगैः ॥ १॥