भविष्यपर्व, अध्याय 60: षष्टितमोऽध्यायः, Verse 1
देवासुरयुद्धे कुबेरानुह्रादयोर्युद्धम् Battle between anuhrAda and kubera कुबेरस्य अनुह्रादेन सार्द्धं भयङ्करं युद्धं वैशम्पायन उवाच ।
धनाध्यक्षमनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यं योधयामास क्षोभयन् यक्षवाहिनीम् ॥ १॥