Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः

Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 1

देवासुरयुद्धे वृत्रोत्कर्षवर्णनम् In the battle between deva-s and asura-s, surge of vRitra देवासुरसङ्ग्रामे कुजम्भस्य, असिलोम्नः वृत्रासुरस्य च उत्कर्षस्य वर्णनं, हरेः अश्विनीकुमाराभ्यां च पराजयः वैशम्पायन उवाच ।

ततः सर्वाणि सैन्यानि देवराजस्य शासनात् ।

अभ्यद्रवन्त दितिजान्नदन्तो भैरवान् रवान् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 2

तं बलौघमपर्यन्तं देवानां सुदुरासदम् ।

रथनागाश्वकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 3

आपतन्तं सुदुष्पारं रजसा सर्वतोवृतम् ।

सैन्यसागरमक्षोभ्यं वेलेव मकरालयम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 4

तदाश्चर्यमपश्यन्त अश्रद्धेयमिवाद्भुतम् ।

उदीर्णां पृतनां सर्वां साश्वां सरथकुञ्जराम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 5

आवार्य समरेऽतिष्ठत् कुजम्भस्तरसा बली ।

सैन्यार्णवं देवतानां गिरिर्मेरुरिवाचलः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 6

अनीकिनीं कुजम्भस्तु गदया स न्यवारयत् ।

सा तथा वारिता सेना विह्वलाभून्निरुद्यमा ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 7

तस्मिंस्तथा वर्तमाने सम्प्रहारे सुदारुणे ।

असिलोमा तु बलवान् दानवो दानवाधिपः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 8

देवसैन्यस्य सर्वस्य धूमकेतुरिवोत्थितः ।

तपत्यर्क इवामोघः सुरसैन्यानि संयुगे ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 9

सहस्ररश्मिप्रतिमो दानवस्य रथोत्तमः ।

शरैर्मेघ इवावर्षद् देवानीकं प्रतापवान् ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 10

शरौघरश्मिभिर्दीप्तैः प्रतप्तो घोरविक्रमः ।

रौद्रः क्रूरो दुराधर्षो दुरापो ध्वजिनीमुखे ॥ ३.५७.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 11

युध्यते दैवतैः सार्धं ग्रसमान इव प्रभुः ।

उग्रेषुरुग्रवदनः समारुह्य महागजम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 12

सुराणामुत्तमाङ्गानि प्रचिनोति महाबलः ।

ग्रसन् दैवतसैन्यानि शरदंष्ट्रः प्रतापवान् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 13

असिजिह्वश्चक्रहस्तश्चापव्यात्ताननोऽसुरः ।

परश्वधनखः श्रीमान् मृदङ्गापूरितध्वनिः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 14

तिष्ठते दानवश्रेष्ठः संयुगे व्याघ्रवद् बली ।

मौर्वीघोषस्तनयित्नुः पृषत्कः प्रथितो महान् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 15

धनुर्विद्युद्गणश्चापो महामेघ इवापरः ।

इष्वस्त्रसागरो घोरो बाहुग्राहो दुरासदः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 16

कार्मुकोर्मितरङ्गौघो बाणावर्तमहाह्रदः ।

गदासिमकरो रौद्रो ज्यावेलः शिक्षयोद्धतः ११६ ॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 17

पदातिमीनः सुमहान् गर्जितोत्क्रुष्टघोषवान् ।

हयान्गजान्पदातींश्च रथांश्च सहसा बहून् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 18

न्यमज्जयत समरे परवीरान् महारथान् ।

आप्लावयत् स देवौघान् दारुणो दानवेश्वरः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 19

प्रावर्तत युधि श्रीमान्युधि श्रेष्ठो युधि स्थिरः ।

अपश्यंस्त्रिदशाः सर्वे शुद्धजाम्बूनदप्रभम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 20

सन्नद्धं तत्र युध्यन्तं ज्वलन्तमिव पावकम् ।

मध्यन्दिनगतं सूर्यं ज्वलन्तमिव तेजसा ॥ ३.५७.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 21

न शेकुः सर्वभूतानि दानवं प्रसमीक्षितुम् ।

यथा प्ररूढं घर्मान्ते दहेत् कक्षं हुताशनः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 22

तथा सुरवरान् दैत्यो दहति स्म सुतेजसा ।

देवानां दानवानां च बलं नर्दति दारुणम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 23

विरूढमभवत् सर्वमाकुलं च समन्तत ।

शूराश्च ते बलोदग्रा हस्त्यश्वरथधूर्गताः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 24

आर्यां बुद्धिं समास्थाय न त्यजन्ति महारणम् ।

तदुत्पिञ्जलकं युद्धमभवद् रोमहर्षणम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 25

देवदानवयोः सङ्ख्ये रुधिरस्रावकर्दमम् ।

न दिशः प्रत्यजानन्त भयग्राहनिपीडिताः ।

शस्त्रपातांश्च विविधान् दानवानां महारणे ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 26

अन्योन्यं मूढचित्तास्ते निजघ्नुर्व्याकुलीकृताः ।

स्वान् परान्नाभिजानन्ति विमूढाः शस्त्रपाणयः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 27

शिरोरुहेषु सङ्गृह्य कश्चिच्छूरस्य संयुगे ।

शूरश्छिनत्ति मूर्धानं सन्दष्टौष्ठपुटाननम् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 28

बाहुभिर्मुष्टिभिश्चैव वज्रकल्पैः सुदारुणैः ।

प्रहरन्ति रणे वीरा आत्तशस्त्राः परस्परम् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 29

योधप्राणहरे रौद्रे स्वर्गद्वारेनपावृते ।

सङ्कुले तुमुले युद्धे वर्तमाने महाभये ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 57: सप्तपञ्चाशत्तमोऽध्यायः, Verse 30

हयो हयं गजो नागं वीरो वीरं महाहवे ।

अभ्यद्रवज्जिघांसन्तो ह्यसमञ्जसमाहवे ॥ ३.५७.३०॥