Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 1

पितृकल्पः - ८ - पितृकल्प समाप्तिः Legend of Brahmadatta विभ्राज का ब्रह्मदत्त का पुत्र बनकर उत्पन्न होना, रानी सन्नति का ब्रह्मदत्त से रूठना, एक ब्राह्मण के कहे हुए श्लोकों से ब्रह्मदत्त, पाञ्चाल्य और कण्डरीक को अपने पूर्वजन्म का ज्ञान होना तथा ब्रह्मदत्त आदि का तप करके मुक्त हो जाना मार्कण्डेय उवाच ।

ब्रह्मदत्तस्य तनयः स विभ्राजस्त्वजायत ।

योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 2

कदाचिद् ब्रह्मदत्तस्तु भार्यया सहितो वने ।

विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 3

ततः पिपीलिकरुतं स शुश्राव नराधिपः ।

कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 4

श्रुत्वा तु याच्यमाना तां क्रुद्धां सूक्ष्मां पिपीलिकाम् ।

ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 5

ततः सा सन्नतिर्दीना व्रीडितेवाभवत्तदा ।

निराहारा बहुतिथं बभूव वरवर्णिनी ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 6

प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता ।

त्वया च हसिता राजन् नाहं जीवितुमुत्सहे ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 7

स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् ।

उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 8

को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति ।

ऋते देवप्रसादाद् वा पूर्वजातिकृतेन वा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 9

तपोबलेन वा राजन् विद्यया वा नराधिप ।

यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 10

यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् ।

प्राणान् वापि परित्यक्ष्ये राजन् सत्येन ते शपे ॥ १.२४.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 11

तत् तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् ।

स राजा परमापन्नो देवश्रेष्ठमगात् ततः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 12

शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् ।

समाहितो निराहारः षड्रात्रेण महायशाः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 13

ददर्श दर्शने राजा देवं नारायणं प्रभुम् ।

उवाच चैनं भगवान् सर्वभूतानुकम्पकः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 14

ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि ।

इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 15

चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।

श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 16

स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् ।

न ददर्शान्तरं किञ्चिच्छोकं श्रावयितुं तदा ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 17

अथ राजा सरःस्नातो लब्ध्वा लब्ध्वा नारायणाद्वरम् ।

प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 18

तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः ।

चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 19

इदमन्तरमित्येव ततः स ब्राह्मणस्तदा ।

श्रावयामास राजानं श्लोकं तं सचिवौ च तौ ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 20

सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।

चक्रवाकाः शरद्वी हंसाः सरसि मानसे ॥ १.२४.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 21

तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।

प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 22

तच्छ्रुत्वा मोहमगमद् ब्रह्मदत्तो नराधिपः ।

सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 23

स्रस्तरश्मिप्रतोदौ तौ पतितव्यञ्जनावुभौ ।

दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 24

मुहूर्तमेव राजा स सह ताभ्यां रथे स्थितः ।

प्रतिलभ्य ततः सङ्गं प्रत्यागच्छदरिन्दमः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 24

ति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 25

ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ।

ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 26

अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् ।

जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 27

अथैनं सन्नतिर्धीरा देवलस्य सुता तदा ।

उवाच परमप्रीता योगाद् वनगतं नृपम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 28

जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् ।

चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 24: चतुर्विशतितमोऽध्यायः, Verse 29

इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् ।

तव चान्तर्हितो योगस्ततः संस्मारितो मया ॥ २९॥