भविष्यपर्व, अध्याय 56: वामनप्रादुर्भावे देवासुरयुद्धे कुजम्भस्योत्कर्षवर्णने, Verse 1
देवासुरयुद्धे कुजम्भोत्कर्षवर्णनम् Description of kujamba's success in the fight between deva-s and asura-s देवदानवानां घोरसङ्ग्रामं - विरोचनस्य विष्वक्सेनेन सह, कुजम्भस्य अंशदेवेन सह युद्धकाले घोरपराक्रमस्य प्रदर्शनं वैशम्पायन उवाच ।
तस्मिन् महाहवे रौद्रे तुमुले लोमहर्षणे ।
ववर्षुः शरवर्षाणि संरब्धा देवदानवाः ॥ १॥