भविष्यपर्व, अध्याय 55: वामनप्रादुर्भावे, Verse 1
धरादिदेवैः सह नमुचिप्रभृतीनां घोरतरयुद्धम् Terrible war between deva-s dhara etc. and asura-s namuchi etc. नमुचिना धरसंज्ञकस्य वसोः, मयासुरेण त्वष्टुः, वायुदेवेन पुलोम्नोः, हयग्रीवेण पूष्णः देवस्य, शम्बरासुरेण भगस्य, चन्द्रदेवेन सम्पूर्णायाः असुरसैन्यस्य पराजयं वैशम्पायन उवाच ।
पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः ॥ १॥