Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे

Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 1

देवासुरयोस्तुमुलयुद्धस्य यज्ञरूपेण वर्णनम् Description of the battle between deva-s and asura-s in the form of a sacrifice देवासुराणां युद्धस्य यज्ञरूपेण वर्णनं, द्वयोः सेनयोः तुमुलं युद्धं, सावित्रध्रुवयोः पराजयं वैशम्पायन उवाच ।

उभयोः सेनयो राजन् भूयो युद्धमवर्तत ।

नादेन सञ्चालयतां त्रैलोक्यमिदमव्ययम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 2

गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।

झल्लरीडिण्डिमानां च व्यभूयन्त महास्वनाः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 3

प्रवृत्तो युद्धयज्ञस्तु तुमुलो लोमहर्षणः ।

रणमध्ये महानादः स्वर्गीयः शूरसम्मतः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 4

युद्धयज्ञस्य नेताभूत् प्रह्रादो दैत्यसत्तमः ।

विरोचनस्तथाध्वर्युर्युद्धयज्ञप्रवर्तकः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 5

होता चैवात्र नमुचिर्वृत्रः स्तोत्रोपकल्पकः ।

मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 6

अनुयातश्च पितरमधिको वा पराक्रमैः ।

यष्टा तत्राभवद् बाण संयुगे चोपतिष्ठते ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 7

ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम् ।

मन्त्रास्तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 8

उद्गाता च मयः श्रीमान् स्थितः शत्रुभयङ्करः ।

विनदन् दितिजश्रेष्ठो देवानीकं व्यदारयत् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 9

बलिस्तु राजा द्युतिमान् स्वयं तत्र महासुरः ।

जाप्यैर्होमैश्च संयुक्ता ब्रह्मत्वमकरोत्प्रभुः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 10

रणाग्निर्ज्वलितो घोरो वैरेन्धनसमीरितः ।

हूयते त्वसुरैस्तत्र देवो विष्णुः सुरैः सह ॥ ३.५४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 11

शङ्खशब्दैः सुतुमुलैर्भेरीणां च महास्वनैः ।

उद्घुष्टं विमलं चैव सुब्रह्मण्यं प्रयुज्यते ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 12

बलश्च बलकश्चैव पुलोमा च महासुरः ।

प्रशस्तं च समं कृत्वा सत्रं सम्यक् प्रचक्रिरे ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 13

कल्माषदण्डा विमला विपुला रथपङ्क्तयः ।

यूपाश्च समकल्पन्त युद्धयज्ञे महाफले ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 14

कर्णिनालीकनाराचा वत्सदन्तोपबृंहिकाः ।

तोमराः सोमकलशा विचित्राणि धनूंषि च ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 15

अस्थीन्यत्र कपालानि पुरोडाशाः शिरांसि च ।

आज्यं च रौद्रं रुधिरं तस्मिन् यज्ञेऽभिहूयते ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 16

इध्माः परिधयस्तत्र प्रस्तारा विपुला गदाः ।

हयग्रीवोऽसिलोमा च राहुः केशी च दानवः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 17

विरोचनश्च जम्भश्च कुजम्भश्च महाबलः ।

सदस्यास्तत्र तु मखे विप्रचित्तिस्तु वीर्यवान् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 18

इषवस्तु स्रुवास्तत्र रथाक्षसदृशाः शुभाः ।

धनुष्कोट्या धनुर्ज्याश्च स्रुवस्तत्र महामखे ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 19

प्रतिप्रास्थानिकं कर्म वृषपर्वाकरोदिह ।

दीक्षितस्तत्र तु बलिस्तस्य पत्नी महाचमूः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 20

शम्बरस्तत्र शामित्रमकरोद् दितिनन्दनः ।

अतिरात्रे महाबाहुर्वितते यज्ञकर्मणि ॥ ३.५४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 21

दक्षिणास्तस्य यज्ञस्य कालनेमिर्महासुरः ।

वैताने कर्मणि विभोर्यः ख्यातो हव्यवाडिव ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 22

त्रिदशानां तु सैन्यस्य शरीरैर्गतजीवितैः ।

तस्मिन् यज्ञे तु सवनं वर्धते दैत्यनिर्मितम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 23

देवानां रुधिरं सङ्ख्ये पपुरुग्रा दितेः सुताः ।

नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 24

यदा बलिर्महादैत्यो विजेता समरे सुरान् ।

तदा ह्यवभृथो यज्ञे भविष्यति न संशयः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 25

महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।

वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 26

त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।

बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 27

एकनिश्चयकार्याश्च त्रैलोक्यजयकाङ्क्षिणः ।

सुरदानवदैत्यानां शब्दः समभवन्महान् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 28

नानायुधविहस्तानां त्वरितानां प्रधावताम् ।

क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिःस्वनैः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 29

रथनेमिस्वनैर्घोरैस्तुमुलः सर्वतोऽभवत् ।

शङ्खदुन्दुभिनिर्घोषैर्हयहेषितनिःस्वनैः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 54: वामनप्रादुर्भावे, Verse 30

हयानां हेषमाणानां दानवानां च गर्जताम् ।

क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस्तथा ॥ ३.५४.३०॥